________________
( ८९ )
योरित्यर्थः । दुःखयतेर्दु खयतेर्वेति सुखदुःखणित्यत्र दुःखधातुर्विसर्गान्वितो मतान्तरेण जिह्वामूलीयान्वितश्च पठ्यते । संयोगान्तलोप इति - ननु व्यञ्जननैरन्तर्य संयोगः, नच विसर्जनीयजिह्वामूलीययोर्व्यञ्जनसंज्ञाऽस्ति । तत्कथं “दस्य इत्यन्तलोप: : सत्यं कस्याऽऽदिः कादिरिति व्युत्पच्या अं अः इत्येतयोर्व्यञ्जनत्वे ततश्च 'अं अः ० " इति सूत्रे अं अः इति साहचर्यात् इत्यस्याऽपि व्यञ्ज - 5 नवे संयोगान्तलोपो भवति । कण्ठ्यत्वाच्च स्थान्यासन्नो गकारः । न तु टप इत्यनेन साहचर्यम् । कुतः अं अः टउप केत्यकरणात् । कचरतीति - यद्यप्यत्र रुत्वस्य परेऽसवात्तृतीयस्याप्राप्तिस्तथापि मातश्चरतीत्यादिषु प्राप्नोतीत्याह - विधानसामर्थ्यादिति ।
""
'गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यत्ये ' | २ | १ | ७७ ॥ धातुरूपावयवस्येति, अत्र धातुरूपावयस्येति विशेष्यम्, अस्य च 10 समासद्वयं, पर्णघुडित्यादौ सिसाधयिषिते धातुरूपश्वाऽसाववयवश्च गुह इत्यादिः । अवयवश्चावयवव्यपेक्षयाऽभिधीयत इति पर्णगुहू इत्यादिः, समुदायोऽवयवी । तुष्टिपू इत्यादौ तु साधयितुमिष्टे धातुरूपस्याऽवयव इति षष्ठीसमासः । धातुरूपं तुण्डिभ् इत्यादि, तस्यावयवो डिम् इत्यादिः । समासद्वयेऽपि च कुण्डमुम्भति कुण्डोप इति निरस्तम्, नहि कुण्डोप् इत्यस्य समुदायस्य मध्ये डोप् इति धातुरूपोऽवयवो नाऽपि 15 धातुरूपस्यावयव इति आदिचतुर्थत्वाभावः । यद्वा धातुरूपस्याऽवयव इत्येवं षष्ठी - समास एव क्रियते, एवं च क्रियमाणे तुण्डिर् इत्यादीनि आद्यन्तवदेकस्मिन्निति न्यायनिरपेक्षाणि सिध्यन्ति । पर्णघुडित्यादीनि तु आद्यन्तवदेकस्मिन्निति न्यायेन । न्यघूमिति-अद्यतन्या ध्वमि, सकि, " दुहदिह० " इति तस्य लुकि, अटि ढत्वे घत्वे ' तवर्गस्य ० " इति धस्य ढत्वे; "ढस्तेडे " इति ढलोपे रूपमिदम् । वर्णविधित्वेनेति - वर्णे 20 सकाररूपे परतो विधिः । सिज्लुकि न भवतीति - ननु सिज्लोपात् पूर्वमेव किमिति नाऽऽदिचतुर्थत्वम् । नैत्रम्, परस्मिन् लोपरूपे कार्ये विधेये आदिचतुर्थत्वस्याऽसदधिकारविहितत्वेनाsसत्त्वात् । प्रत्यय इति किमिति - ' ननु प्रत्ययाप्रत्यययोः प्रत्ययस्यैवेति' न्यायेन प्रत्यये एवं भविष्यति किं प्रत्ययग्रहणेन ? सत्यम् दद्ध्वः दध्वहे इत्यत्र यदा उभयोः स्थाने इति न्यायेन ध्व इत्यस्य प्रकृतिप्रत्ययस्थाननिष्पन्नस्य प्रत्ययव्यपदेशः स्यात्तदा आदिचतुर्थत्वं भवेत् । सति तु प्रत्ययग्रहणे न्यायनिरपेक्षो यः प्रत्ययस्तस्मिन्नेव भवति नेतरस्मिन् प्रत्ययग्रहणसामर्थ्यात् ।
(C
25
' धागस्तस्थोश्व ' । २ । १ । ७८ ॥ नन्वत्र चकारकरणं किमर्थं स्ध्वोः पूर्वेणैव
"
१२-१-८९ । २१-१-१६ । ३४-३-७४ । ४१-३-६० । ५ १-३-४२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org