________________
(८८) भावे क्वस्सिति द्विः सकाररूपाद्रहणं स्यादितीह मा भूदिति ककारकरणम् । रुत्वढत्वयोरेव बाधकमिति-अनडुशब्दे " हो' धुट्पदान्ते " इत्यनेन ढत्वस्य शेषेषु रुत्वस्य प्राप्तिः। प्राप्ते चाऽप्राप्ते चेति क्लीवे विद्वत्कुलमित्यादिष्वप्राप्ते पुंस्त्वे तु विद्वानित्यादौ
प्राप्ते इति तस्य न बाधकम् । 5 'ऋत्विदिश्श्स्पृ श्स्रज्दधृषुष्णिहो गः'।२।१।६९ ॥ ऋत्विगिति, ऋतुः प्रयोजनं प्रवर्तको यस्येति वाक्ये “ मयूर० " इति प्रयोजनशब्दलोपः । अत एव निपातनाद्वा । ऋतु प्रयोजन इत्यर्थकथनं वा । तत्र पक्षे ऋतुना हेतुभूतेन यजते इत्यर्थः । ननु ऋत्विदिग्दृगिति गान्ता निपाताः क्रियन्तां किं गविधानेन ?
सत्यम् , गनिपातने गत्वसंनियोगशिष्टतैव ज्ञायेत ततो व्यावृत्तौ दधृषौ उष्णिहाविति 10 न स्याताम् । गत्वे तु विहिते निपातनं सर्वत्र भवति, गत्वं तु पदान्त एव भवतीति । स्रगिति-सरति मस्तकादिकमिति “ ऋधि पृथि० " इत्यनेन बहुवचनात्किदज् ।
'नशो वा'।२।१।७० ॥ जीवतीति अच् । जीवस्य जीवतो नशनं " भ्यादिभ्यो वा ” इति क्विप् । ___ 'सजुषः' ।२।१।७३ ॥ रत्वापवादः, सभाव इति, अस्मादेव निर्देशात् ।
'अहः'।२।१। ७४ ॥ लाक्षणिकत्वादिति अयमभिप्राय उणादयोऽव्युत्पनानि नामानीत्यस्मिन्पक्षे नाम्नः प्रतिपदोक्तस्य सम्भवाल्लाक्षणिकस्य न ग्रहणमिति । व्युत्पत्तिपक्षस्तु इह नाऽऽश्रितः ।
'रोलुप्यरि।२।१।७५॥ अहरधीते इति " कालाध्यैनो० "द्वितीया। अहः काम्यतीति "रोः काम्ये” इति नियमात् " प्रत्यये" इत्यनेन न सकारः । हे दीर्घा20 होऽत्रेति, अत्र वाक्ये विभक्ते बस्ति तत्कथं रो न भवति ? सत्यं, लुपीति प्रत्यासत्या
व्याख्येयम् । यदपेक्षया लुप् पदत्वमपि यदि तदपेक्षया भवति । अत्र तु वाक्यविभत्त्यपेक्षया लुप्, साक्षाद्विभक्त्यपेक्षया तु पदत्वम् । वाक्यविभत्त्यपेक्षयैव पदत्वमपि न वाच्यम् " वृत्त्यन्तोऽसषे” इति प्रतिषेधात् । रथन्तरमिति-रथं रथस्थं तरत्यतिका
मति “ भृङ्घजि.” इति खः, सामविशेषः । यातमिति कर्मणि क्तः। 25 'धुटस्तृतीयः' ।२।१ । ७६ ।। अभिरिति अत्र संज्ञाशब्दत्वात् " चेंजः
कगम्” इति न भवति । अलाक्षणिकयोरिति “रः कखपफ०" इत्यादिलक्षणेनाऽकृत
१२-१-८२ । २ ३-१-११६ । ३ उणा ८७४ । ४ ५-३-११५ । ४ अ २-२-४२ । ५२-३-७। ६ २-३-६ । ७ १-१-२५ । ८५-१-११२ । ९२-१-८६ । १० १-३-५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org