________________
(८७) " हेस्वः " इत्यनेन इस्वत्वे, तस्य च कार्यान्तरबाधनार्थ “ ज्याव्येव्यधि” इति इकारस्याऽपीत्वे प्रथमे प्रयोगे "नामिनोऽकलिहलेः" इति एत ऐत्वे आयि च सिद्धम् । असिद्धत्वादिति-द्वित्वे कृते प्रत्ययाश्रितत्वेन बहिरङ्गस्य प्रकृत्याश्रितत्वेनाऽन्तरङ्गे दीर्घत्वे कर्तव्ये “ ह्रस्वः” इत्यनेन कृतस्य इकारस्येत्यर्थः । न तु वृद्धाधनार्थ, " ज्याव्येव्यधि० " इति कृतस्येकारस्याऽपि मध्ये इकारस्याऽसिद्धत्वं यतस्तस्याऽ- 5 सिद्धत्वे " हस्वः " इत्यनेन कृत इकारः सिद्धः स्यात्तस्य च नामित्वात्ततो नामिनोऽ. सिद्धत्वादिति यदुक्तं तद् व्याहतं स्यात् । ननु नामिनोऽसिद्धत्वादिति किमित्युक्तं यावता यद्यप्यत्राऽनेन दीर्घो भविष्यति, तथापि " ह्रस्वः” इत्यनेन हस्ते कृते संविव्यायेत्यादि सेत्स्यति; सत्यम् , हस्वरूपे परस्मिन्कार्ये विधेये दीर्घत्वं दीर्घत्वशास्त्रं वाऽसिद्धं भवतीति । यदाऽपि नित्यत्वाद्विशेषविधानाद्वा " ह्रस्वः” इति वाधित्वा 10 " ज्याव्येव्यधि० " इति प्रवर्तते तदाऽपि तस्याऽपि प्रत्ययाश्रितत्वेन बहिरङ्गेनाऽसिद्धत्वान्नामिनोऽभावाद्दीर्घाभावः । कुर्दते, कुर्दनेत्यादिषु ट्वोस्फूर्जेति ज्ञापकादीर्घत्वं न भवति, कथं यदि रेफोपान्तानां दीर्घः स्यात्तदा द्वोः स्फूर्जा वज्रनिर्घोष इत्यस्याऽपि दीर्घः सिद्ध इति दीर्घोच्चारणं न कर्तव्यम् । तस्मादत्र दीर्घ कुर्वन् ज्ञापयति भ्वादेरित्ययं विधिरनित्यः।
'मो नो म्वोश्च' । २।१ । ६७ ॥ पदान्त इत्यनुवर्तमानेन समुच्चयार्थश्चकारो न तु पदान्त इत्यस्याऽनुकर्षणार्थः । विधानसामर्थ्याल्लोपाभावो नाऽऽशङ्कनीय इत्याह-न त्वस्याऽसत्वादिति । खल्वपीति-अप्यर्थेऽखण्डमव्ययम् ।
'संस्ध्वं स्कस्सनडुहो दः'।२।१।६८॥ उखास्रदिति, उखया युतेन स्थाल्या वा स्रंसते । ननु दकारकरणं किमर्थ ? तकार एव क्रियताम् , यतस्तकारेऽपि कृते 20 "धैंटस्तृतीयः" इत्यनेन दकारो भविष्यति । नैवम् , तकारे विधीयमाने परेऽसदिति वचनात् “ धुटस्तृतीयः " इति दत्वाभावाद्दकारश्रवणं न स्यात् । स्वनडुदिति-अत्र बहुत्वे वाक्यं कार्यमेकत्वे तु " घुमनडुनौ० " इति कच् स्यात् । कस्सितीति-कसोः ककारो 'वसं' निवासे, 'वसिक्' आच्छादने अनयोयुदासार्थः । तेन वसेः किपि यजादित्वात्
वृति दीर्घत्वे ऊः । क्षौमं वस्ते क्विपि क्षौमवः । अथ वसतिवस्त्योः सकारान्तत्वा- 25 व्यभिचाराव्यभिचारे च विशेषणस्याऽर्थववाद् व्यभिचारिणः कस एव ग्रहणं भविष्यति । कुतो कस्सिति सकारोपादानात् ? नैवम् , अन्यथाऽपि प्रतीतिः स्यात, यङ्लुबन्तयोरेतयोरेव शस्तनीसिवन्तयोविशेषविहितत्वेन " सेः रद्धां च०" सित् लोपा
15
१४-१-३९ । २४-१-७१ । ३ ४-३-५१ । ४ २-१-७६ । ५ ७-३-१७३ । ६ ४-३-७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org