________________
स्वरूपेण न भवति । क्वचित् पानुवन्धो न भवतीति नागमाभावः। प्रत्यासत्येतिअत्रैकेन प्रयत्नेन द्वयोरुपादानं प्रत्यासत्तिः । शब्दान्तरं प्रतीत्य शब्दान्तरस्याऽऽसत्तिरिति व्युत्पत्तेः । इयमेव हि शब्दस्य शब्दान्तरेण प्रत्यासत्तिः । यदेकप्रयत्नेनोच्चारणं नामैकवाक्योपात्तलक्षणप्रत्यासतिर्नेहोपयुज्यते । 5 ‘पदान्ते'।२।१।६४ ॥ पिपठीरिति, ननु भ्वादेः सम्बन्धिनो नामिनो दीर्घ इत्युक्तं, तत्कथमत्र पिपठिष् इत्यस्याम्वादिरूपस्य सम्बन्धिनो नामिनो दीर्घ इति ? सत्यम् , भ्वाद्यवयवेन पट् इत्यनेन योगात्समुदायोऽपि पिपठिष इत्येवंरूपो भ्वादिः । यद्येवं पूर्वसूत्रेषूदाहृतेषु चतुर्भिः, चतुर्थ इत्यादिष्वप्यनेन प्रकारेण स्वादि
सम्बन्धित्वमस्त्येव तत्कथं न दीर्घः सत्यम्, धातुत्वे सति स्वायम्बादिचिन्ता क्रियते, 10 अत्र तु धातुत्वस्याऽप्यभावः । तर्हि कुकुरीयति, चतुर्यति, दिव्यतीत्यादिषु धातुत्व
मस्ति ततोऽनेन प्रकारेण भ्वादित्वमप्यस्ति ततो दीर्घः स्यात् ; सत्यं, यद्यप्येवं प्रत्ययान्तानां धातुत्वमस्ति पिपठीरित्यादिवदेतेषु न भ्वाद्यवयवात् प्रत्ययो विधीयते, किं तर्हि नाम्न एव ? ततो म्वाद्यवयवयोगाभावात् कुर्कुरीय इत्यादेः समुदायस्य न
भ्वादित्वम् । आशीरिति अत्र नित्यमपि विसर्ग बाधित्वा " नित्यादन्तरङ्ग "मिति 15 न्यायात् प्रथममनेन दीर्घस्ततो विसर्गः ।
'न यि तद्धिते' । २। १। ६५॥ नाम्युपान्त्य इति, अयमर्थः । यदा दिनु इत्यादेः क्विप् तदा ऊटा भाव्यं, इति न वकारान्तत्वम् । यदा तु विच् तदा गुणे कृते एकारस्य दीर्घरूपस्य दीर्घकरणं व्यर्थम् । ननु दिव्यमित्यत्र सम्भवति वान्तो
नाम्युपान्त्यश्च धातुः, सत्यं, अत्राऽपि डिवप्रत्ययान्तस्यौणादिकत्वादिवो न धातुत्व20 मिति न वान्तो नाम्युपान्त्यश्च धातुः सम्भवति । पुर्यामिति-पुरशब्दाजातित्वाद्
यां, 'पृश' पालनपूरणयोरित्यस्मात् “ कृगपृ० " किति इप्रत्यये वा । एवं गिर्योः किर्योरिति । पहिरङ्गलक्षणस्येति-प्रत्ययाश्रितत्वेन यत्वं बहिरङ्गं, दीर्घत्वं तु प्रकृतिमात्राश्रितत्वेनाऽन्तरङ्गम् । कुरु-कुर्वित्युकारः किमिति, अन्यथा प्रतिपदो
क्तत्वात् कुरत् शब्दे इत्यस्यैव ग्रहणं स्यात्तर्हि कृच्छुर इति निर्विवादं क्रियताम् । न 25 च वाच्यं कृच्छर इति कृते 'कुंगट ' हिंसायामित्यस्याऽपि ग्रहणं स्यात् , कृणोतीत्यादौ
रेफाभावात् करिष्यन्तीत्यादौ तु नाम्यभावेन दीर्घत्वप्राप्तेरभावाचेति । उच्यते-एवंविधे सूत्रे कृते चिकीर्षतीत्यादौ दीर्घनिषेधः स्यात् । संविव्याय, विव्याधेति 'व्यग्', व्यधंच आभ्यां णवि, “ व्यस्थवणवि" इत्यात्वप्रतिषेधे द्वित्वेऽनादिव्यञ्जनलोपे
१ उगा० १८८ । २ ४-२-१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org