________________
( ८४ )
पठित्वा करकारशब्दयोरेकार्थत्वादेकदेशविकृतं तदेवेति कारशब्देनाऽपीच्छति । स्वयम्भुवाविति-अत्रापि “ दिद्युद्ददृज्ज” इत्यादिना विप् । न तु " शंसंस्वयम्" इत्यादि डुः । तदा हि धातुत्वं न स्यात् । एतैरेवेति-प्रकृतिनियमोऽयम् । एतैर्योगे
भुव एव नाऽन्यस्य, धातोरिति तु उपपदनियमो न भवति । “ अस्वयम्भुवोऽव्” इति 5 सूत्रनिर्देशात् । एवंविधे हि नियमे क्रियमाणे एतैर्भुव एव नाऽन्यस्येत्यन्ये धातवो नियत्रिताः स्युः । भुवस्तु एतैरन्यैश्च योगे वत्वं स्यात्तथा चाऽस्वयम्भुव इति न स्यात् ।
‘णषमसत् परे स्यादिविधौ च'।२।१।६०॥णो विधीयमानत्वेनैवस्तीत्यभ्राद्यकारे णशब्देन णत्वविधायकानि सूत्राण्युच्यन्ते, एवं पशब्देनाऽपि
पत्वविधायकानीति । एतत्सूत्रनिर्दिष्टयोरिति-यदि तु सप्तमपादोक्तक्रमेण षण इति 10 क्रियते तदा णत्वमसद् द्रष्टव्यमिति पूर्व कृतस्य णत्वस्यासत्वात् प्रनष्ट इति सिद्धम् ।
न च श इति व्यावृत्त्या पूर्वमेव न भविष्यति । धातोः पश्चादुपसर्गसम्बन्ध इति मते व्यावृत्तेश्चरितार्थत्वात् अभिषुणोतीत्यादि न सिध्यति । " उपसर्गात्सुग्० " इत्यनेन विहितस्य षत्वस्य णत्वे परेऽसत्त्वात् । “ रघुवर्णान्नोण." इत्यनेन षकाराद्विधीय
मानं णत्वं न स्यात् । णषशास्त्रं वेति-अयमभिप्रायः, शास्त्रस्यैवाऽसिद्धत्वं युक्तम् । 15 कार्यासिद्धत्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हतेऽपि न पुनर्देवदत्तस्य प्रादुर्भावो
भवति तथा कार्येऽसिद्धत्वमापादितेऽपि न प्रकृतेः पुनः प्रत्यापत्तिर्भवति । ततः पुष्ण इत्यत्र णत्वस्याऽसिद्धत्वेऽपि नकारप्रत्यापत्तेरभावान्नाऽनन्ता प्रकतिरिति तन्निबन्धनोऽनोऽकारलोपो न स्यात् । शास्त्रासिद्धत्वे त्वकारलोपशास्त्रमेव तावत्प्रवर्तते न णत्व
शास्त्रमिति । अधिकार इति-अधि उपरि क्रियतेऽनुवर्त्यत इत्यधिकारः घजि । 20 'क्तादेशोषि'।२।१।६१ ॥ककारेणोपलक्षितस्त इति व्युत्पत्तिकरणात
क्तक्तवतुक्तित्त्वानां ग्रहणं सिद्धं, ककारोपलक्षितस्य तकारस्य सर्वेष्वेषु विद्यमानत्वात् । परे कार्ये इति-परत्वमेतत्सूत्रापेक्षं विज्ञायते, न क्तादेशविधायकसूत्रापेक्षम् , अषीति प्रतिषेधात् । एतत्सूत्रापेक्षे हि परत्वे " यज सृज० " इति षत्वमपि परम् । तस्मिन्नप्य
सत्वे प्राप्तेऽषीति प्रतिषेधो युज्यते । क्षामिमानिति-क्षामस्याऽपत्यं “ अंत इञ्" ततो 25 मतुः । यद्वा शामोऽस्याऽस्ति इन् ततः क्षाम्यत्राऽस्ति मतुः। लून्युः पून्युरिति, लून
पूनं चेच्छति क्यन् “ क्यनि" इति ईकारस्ततो ङस् । यदाऽपि लवनं लूनिस्तामिच्छति या स्त्री क्यन् लूनीयतीत्यादि प्रक्रिया क्रियते तदाऽपि ग्रामणीशब्दवत् विशेषणशब्दत्वेन नित्यस्त्रीत्वाभावात् “ योऽनेकस्वरस्य " इति यत्वे लून्युः पून्युरित्येव
१५-२-८३ । २ ५-२-८४ । ३ ७-४-७० । ४ २-३-३९ । ५२-३-६३ । ६ २-१-८७ । ७६-१-३१ । ८१-४-२९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.