________________
10
(८३) स्वरादित्वाभावाद्वितीयाबहुवचनस्यैव शसो ग्रहणात्तस्याऽव्यभिचारात्तेन साहचर्यम् क्यन्नाद्यन्तस्येति, अथ धातुरूपस्यैव स्त्रीशब्दस्य विकल्पार्थमिदं कस्मान्न भवति, कथमुक्तं " धातोरिवर्ण० " इत्यादिना नित्यमियादेश इति ? उच्यते-स्त्रिया इति प्रागारम्भादधातोरेव स्त्रीशब्दस्य ग्रहणम् । स एव चाऽनुवर्तते न चाऽनुवर्तमानस्याऽन्यथात्वं भवति, यदाह श्रीशेषराजः " नहि गोधा सर्पन्ती सर्पणादहिर्भवतीति" 5 तस्माद्युक्तमुक्तं "धातोरिवर्णो०" इत्यादिना इयादेश इति ।
'योऽनेकस्वरस्य' ।२।१ । ५६ ॥ धातोरित्युनुवर्तत इति, 'विशेषातिदिष्टः प्रकृतं न बाधत' इति न्यायात् , इय्बाधकमिदम् । __ 'स्यादौ कः'।२।१ । ५७ ॥ उवाधनार्थमिदं, वसुमिच्छतीति देवमग्निं राजानं वेत्यर्थः । द्रव्यवृत्तिस्तु नपुंसकः ।
'किवृत्तेरसुधियस्तो'।२।१।५८ ॥ किबन्तेनैवेति, नन्वत्राऽवधारणं कस्माल्लब्धम् ? उच्यते-वृत्तिस्थस्य धातोः स्यादौ कार्यविधानात्तस्य च केवलस्य वृत्त्यसम्भवाद्वतिग्रहणादेव किपिलब्धे विबग्रहणमवधारणार्थमत एवाऽवधारणस्य शब्दाश्रयत्वादसामर्थ्यमपि नास्तीत्याह किवृत्तेरिति । सेनानीरिति-सेना नेतेत्यर्थकथनं यावता सेना शब्दस्य षष्ठ्यन्तस्य 'गतिकारकेति' न्यायेन नीशब्देन किन्तेन 15 " कृति " इति समासः, न च वाच्यं “ नै नाम्येक० " इति नियमेन द्वितीयैव प्राप्नोति न षष्ठी तत्कथं कृतीति समासः १ उच्यते-"ङस्युक्तं कृता" इत्यस्यैव विषयेऽयं नियमो न कृतीत्यस्य, यदाऽपि नयतीति नीः पश्चात् परमशब्देन कर्मषष्ठ्यन्तेन कारकत्वात् स्याद्युत्पत्तेः पूर्व क्विवन्तेन समासस्तदाऽपि यत्वं भवतीत्याह यद्वेत्यादि, उभयत्राऽप्यर्थमेदाभावात् प्रक्रियाभेदमात्रमेतदुपदर्शितमिति, परमार्थतस्तु सोपपदादेव किए। 20 ननु बहवः सेनान्यो यस्येति कृते यत्वं भवति वा नवा? भवत्येव, यतः सेनानीशब्दस्य किवन्तेन वृत्तिरस्ति । परमनीरिति-परमशब्दस्याऽकारकत्वात् किबन्तेन समासाभावात् किग्रहणादिह यत्वं न भवति ।
'हन्पुनवर्षाकारैर्भुवः'।२।१॥ ५९॥ इन् हिंसन्निति दृह् , दृहु इति धातुः इंहतीति विपि, तल्लोपे, सिलोपे च "पदस्य” इति हलोपे हन् इति रूपम् । वर्षा- 25 भूरिति-भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दुर्दुरे नषण ( नषस्त्रीण ) इति वैजयन्तीकारः। कारेति-क्रियत इति कारो राजलभ्यो भागः। करम्वौ उभयं शाकटायनः। स हि करशब्द
१२-१-५० । २ ३-१-७७ । ३ ३-२-९ । ४ ३-१-४९ । ५२-१-८९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org