________________
(८२) 'धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये' ।२।१।५०॥ युवर्णस्येति कर्तव्ये यदिवर्णोवर्णस्येति कृतं तद्विचित्रा सूत्रकृतिरिति दर्शनार्थम् । प्रत्यये इति 'प्रत्ययाप्रत्यययोरिति' न्यायेन प्रत्यय एव भविष्यति किं तद्रहणेन ? सत्यं, 'न्यायानां स्थविरयष्टिन्यायेन प्रवृत्तिः । नियो, निय इति, ननु गौणमुख्ययोरिति मुख्यस्यैवेयुवौ प्राप्नुतः ? नैवम् , “ स्यादौ वः " इति सूत्रस्यैतदपवादत्वाद् गौणस्याऽपि भवति । स्त्रियाविति-ननु “ स्त्रियाः" इत्यनेनाऽपीय सिद्धः किमत्रोदाहरणेन ? सत्यं, तेन नाम्न इय् भवति अनेन तु धातोः, अत एव यत्र विवन्तः स्त्रीशब्दो भवति तत्राऽनेन " वाऽम्शसिः" इति विकल्पो बाध्यते ।।
'इणः'।२।१ । ५१ ॥ अत्र व्यभिचाराभावेऽपि धातोरित्युत्तरार्थमनुवर्तनी10 यम् । यत्वापवाद इति-" योऽनेकस्वरस्य ” इति प्राप्तस्य । परत्वेनेति-शितीति विशे
पविहितत्वात् प्रकृष्टत्वेनेत्यर्थः । परत्वं तु स्पर्धाभावान घटते । परत्वादिति- पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरानिति', “ योऽनेकैस्वरस्ये" ति प्राप्तं यत्वं बाधते न तु गुणवृद्धी । ईयतुरित्यत्र द्वित्वे कृते 'वात्प्राकृतं बलीय' इति न्यायात्प्रथ
ममियादेशस्ततो दीर्घः। 15 'संयोगात् ।।२।१ । ५२ ॥ यवोरपवादौ इति " किवृत्तेः० " " योऽने
कस्वरस्य" इति विहितयोः। __ 'भ्रूश्नोः ' । २। १ । ५३ । संयोगात् परस्येति विशेषणं श्नोर्न तु भ्रूशन्दस्याऽव्यभिचारात् ।
'स्त्रियाः'।२।१। ५४ ॥ स्त्रियामित्यत्र 'निरवन्धनुग्रहणे' इति न्यायात् 20 “ हस्वापश्च" इति नाम् न परमस्त्रियाविति-ग्रहणवतेति नोपतिष्ठते, " वेयुवो० "
इत्यत्रास्त्रिया निर्देशात् । यद्वा स्वरादिप्रत्ययेन प्रकृतेराक्षेपात् स्त्रिया इति तस्या विशेषणत्वेन तदन्तसंप्रत्ययात्तदन्तस्याऽप्युदाहरणं । तर्हि शस्त्रीशब्दस्याऽपि रूयन्तत्वादियादेशः प्रामोतीत्याहाऽनर्थकत्वादिति । एतचेति-अस्त्रिया इति निर्देशात् परादपी
युव्यत्वादिकार्यात् प्रथममेव ईदाश्रितं कायं भवतीत्यायुक्तं तत्रेत्यर्थः। 25 'वाऽम्शसि'।२।१॥ ५५ ॥ अत्र षष्ठीबहुवचनस्य नामविषयत्वेन स्वरा
दित्वाभावात् शस्साहचर्याच तुल्यायामपि संहितायां द्वितयैकवचनस्यैव ग्रहणम् । स्त्रीशब्दस्य संख्यैकार्थत्वाभावात्तद्धितशसोऽनुत्पत्तेः संख्यैकार्थत्वयोगादुत्पत्तौ वा
१२-१-५७ । २ २-१-५६ । ३ २-१-५८ । ४ १-४-३२ । ५ १-४-३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org