________________
'मोऽवर्णस्य'।२।१।४५॥ नन्वदः कुलमिच्छतीत्यस्मिन् वाक्येऽदसशब्दानपुंसकात् से पि " सोरुः” इति रुत्वे, “ 'रोर्यः" इति यत्वे, “ स्वरे वा" इति यलोपेऽवर्णान्तत्वान्मत्वप्रसङ्ग इति; सत्यं, पदान्तरापेक्षत्वेन यलोपस्य बहिरङ्गत्वात्तदनपेक्षत्वेन मत्व विधेरन्तरङ्गत्वादसिद्धं बहिरङ्गमिति लोपस्याऽसिद्धत्वेऽनवर्णान्तत्वान्मकाराभावः।
5 'वाद्रौ'।२।१।४६ ॥ अदसोऽवयवस्याद्यागमस्य तद्ब्रहणेन ग्रहणात्तस्मिन् सत्यदस इकारान्तत्वेनाऽवर्णान्तत्वाभावादप्राप्तेऽयं योगः । अमुमुयङिति-समुदाये प्रवृत्ता अपि शब्दा अवयवेऽपि वर्तन्ते इति । मात्रा शब्दोऽर्धपात्रायामपि तेनाऽमुमुयडित्यत्राऽर्धमात्रिकस्याऽपि स्थाने एकमात्रिक उकारादेशो भवति । अत्र वा व्यवस्थितविभाषार्थो न विकल्पार्थस्तेन काऽपि कथञ्चिद्विकल्पः प्रवर्तते यदि तु विक- 10 ल्पार्थः स्यात्तदा प्रथममेव प्रयोगद्वयं स्यात् । तावतैव विकल्पस्य चरितार्थत्वात् । अदसो दकारस्येति-अनेरागमत्वाददस्ग्रहणेन ग्रहणाददसो दकारस्येत्युक्तेऽपि अदसो ऽद्रेश्च दस्य मः सिद्धः, दकारस्येत्यत्र एकवचनान्तत्वादेकस्यैव दस्य म इति तु न वाच्यम् अात्याश्रयणात् ; चातूरूप्यमिति स्वार्थे भेषजादित्वात् व्यणे चतुर्णा रूपाणां भावः " पैतिराजान्त० " इत्यनेन वा ।
15 'मादुवर्णोऽनु' ।२।१।४७ ॥ अनु पश्चादिति, अत्राऽनुना पूर्व सम्बन्धस्तस्य च पश्चादर्थत्वात् " प्रभृत्यन्यार्थ० " इति दिग्योगलक्षणा पञ्चमी । यदि पूर्व पश्चादित्यनेन योगो विवक्ष्यते, तदा “ रिरिष्टात्" इत्यनेन कार्यान्तरेभ्य इत्यत्र षष्ठी स्यात् । पश्चादित्यखण्डमव्ययं वा । अथाऽत्रानुग्रहणं किमर्थं यतो यदि कार्यान्तरात् प्रागुवर्णो भवति तदा इनादेवेत्युत्तरसूत्रे नियमार्थे व्याख्याय मानेऽन्वर्थस्य लब्धत्वात् , 20 सत्यं, एवमपि नियमाशङ्का स्यात्, इनादेशस्तावत्प्रत्ययादेशस्ततोऽन्यस्मादपि प्रत्ययादेशादेव पश्चादुवर्णः प्रकृत्यादेशात् परत्वात् पूर्वमपि भवेत्तथा च अमुया अमुयोरित्यादयो न सिध्येयुः। अमुष्मै-नन्वत्र “र्डित्यदिति " इत्योत्वं स्मै आदेशे कृते कथं न भवति ?, उच्यते-अदितीत्यत्र नञः पर्युदासाश्रयणात् , स हि सदृशग्राही ततो यत्र साक्षात् स्वरोज्ने भवति तत्रैव पूर्वस्योकारस्य ओकारस्तत्राऽदितीति साक्षा- 25 त्स्वरवर्जनात् ।
'बहुष्वेरी'।२।१ । ४९ ॥ अमुकेभ्यः अत्राऽकस्तन्मध्यपतितस्य तद्ब्रहणेन ग्रहणेऽप्युकारेण व्यवधानादनेन ईत्वाभावः।।
११-३-२६ । २१-२-२४ । ३ ७-१-६० । ४ २-२-७५ । ५२-२-८२ । ६१-४-२३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org