________________
(0) 'किमः कस्तसादौ च ' ।२।१।४०॥ नन्वत्र तसादाविति किमर्थ तसि तावत् “ इतोऽतः कुतः” इति निपातनं वक्ष्यते ? सत्यम् , उत्तरार्थमिदम् । अथवा थमन्तार्थ तसादिग्रहणमन्यथाऽनवधिकं ज्ञायेत, अत्र पूर्वसूत्रात्स्यादावित्यनुवर्तमानेन तसादावित्यस्य समुच्चयार्थश्चकारा । यथा “विशेषणं विशेष्येणै०" इत्यत्र । अत एवं 5 " आद्वेर" इत्यत्र स्यादावित्यस्याऽनुवृत्तिरन्यथा चानुकष्टत्वानाऽनुवर्तत । थमव
साना इति-तेन किन्तरामित्यादौ तदुत्तरेषु न भवति । ___'आद्वेरः' ।२।१ । ४१ ॥ द्वाविच्छति क्यनि किपि तयोर्लोपे सौ " आद्वेर" इत्यनेनेकारस्याऽत्वं न त्यदादिसम्बन्धिस्याद्यभावात् द्वीरित्येव भवति ।
एक इति-रूपनिर्णयार्थमिदं दर्शितं न तु किश्चित्फलम् । 10 'तः सौ सः'।२।१ । ४२ ॥ भवतीति ' नामग्रहणे० ' इति न्यायाद
त्राऽपि सत्त्वे भवसीति स्यात् । नपुंसके सेरमावात् पुंलिङ्गे तु सेः स्थानित्वेन सत्वे कृतेऽपि " पैदस्य ” इति सलोपे विशेषाभावात् स्त्रियामुदाहृतम् । _ 'अदसो दः सेस्तु डौः ।२।१।४३ ॥ असाविति-सेरनेन डौ “डित्यन्त. स्वरादेः” इत्येवं कार्य, न तु “आढेरः" इति प्रक्रियालाघवार्थ डित्कार्यस्य सर्वकार्य15 बाधकत्वेन व्याख्यास्यमानत्वाच । हे असौ, हे असको विद्वनिति-अत्र औरित्यपि
कृते तदादेशा इति से स्थानित्वेऽपि “अदेतः स्यमोः०" इत्यस्य न प्रसङ्गः । सिद्वाराऽमोऽपि लुपि सिद्धायां यदम् ग्रहणं तदन्यस्य स्यादेशस्य लुगतोऽमिति तत्र व्याख्यानात् । कार्याणि न भवन्तीति-एतानि च स्त्रियां प्राप्नुवन्ति । तथाहि-अदम्शब्दात् सौ अनेन औकारे "आवरः" इत्यत्वे आपि औव्यपदेशे औतेत्यस्य सिव्यपदेशे 20 तु आमन्व्ये " ऐदापः" इत्यस्य औ, अनामन्त्र्ये तु " दीर्घाब्" इत्यस्य, अकि
तु " अयायत्तत्० " इत्यस्य प्राप्तिः। अथ औतेत्यत्र प्रथमाद्वितीयाद्विवचनेनेति व्याख्यानात्कथं सिः स्थानौकारस्य प्राप्तिः सत्यम् , अत्रैवं स्थिते तत्रैवं व्याख्यावमिति औतेति प्राप्नोत्येव ।।
_ 'असुको वाकि' ।२।१ । ४४ ॥ असुक इति-अत्र परत्वान्नित्यत्वाच 25 “ अभ्वादेः" इति बाधित्वा सस्य " आद्वेरः", "लैंगस्या०", " 'सोरुः", केचित्वसुकसिति तन्मते-सम्बोधने स्त्रियां चाऽसुक इति विसर्गान्त एव स्वमते तु त्रियामसुका इति । स्त्रीसम्बोधने तु हे असुके ! इति ।
१७-२-१०।२३-१-१६।३१-१-८९।४२-१-११४। ५१-४-४२ । ६१-४-४५। ७२-४-१११ । ८१-४-१०।१२-१-४१।१० २-१-११३ । ११ २-१-०१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org