________________
( ७९ ) मत्पुत्रौ " अनुकम्पा०" इतिकः(कप्), शीलवन्ताविमको तिष्ठत इति । अत्राऽपि पूर्ववद्गम्यमानोऽन्वादेशः । अथो इत्यादि तु द्योतकत्वात् काऽपि प्रयुज्यते काऽपि न । अयं दण्डो हराऽनेनेति-अत्र ह्यनुवादमात्रमेव न तु निभाल्यतामित्यादि विधीयते । अथो एनं परिवर्तयेत्येव भवतीति-न तु कुण्डशब्दस्य नपुंसकस्य विशेषणत्वे एनदिति । _ 'अव्यञ्जने' । २।१ । ३५ ।। तकार उच्चारणार्थः, अन्यथा सौ “ सोरुः" 5 इत्यादिकृते ओ इत्यनिष्टं स्यात् । प्रथमान्ततयेह विपरिणम्यत इति-अत एव कार्या निमित्त कार्यमिति निर्देशक्रमे प्राप्ते निमित्तात्पूर्व कार्यनिर्देशः । उत्तरत्राऽनगिति प्रथमान्तविशेषणोपादानाद्वा। शैक्षकाम्यामिति-शिक्षेते इति शिक्षको, ततः स्वार्थे प्रज्ञाद्यण । शिक्षणं शिक्षा "क्तेटो०" इत्यप्रत्ययः शिक्षा वित्तोऽधीयाते वा “पदक्रमाशिक्षा.” इत्यकः। ततः शिक्षकावेव प्रज्ञाद्यण् । अथवा शिक्षायां भवौ " शिक्षादेश्वाऽण्” ततो यावादि- 10 स्वात्कः। अथ सावपि व्यञ्जनत्वात्कथं नाऽयमादेश इत्याह-सौ तु परत्वादिति । साक एव विधिरिति-विश्रान्तादावन्वादेशे साको निरकश्चाऽदादेशविधानादिहैवं व्याख्या। साको यद्यादेशस्तदाऽन्वादेश एवेति । तेन निरकोऽन्वादेशेऽनन्वादेशे चोत्तरेणाऽदादेशः सिद्धः।
'अनक' ।२।१। ३६ ॥ पृथग्योगादिति-पृथग्योगारम्भादिति भावः, अन्यथा साकोऽप्यनकोऽप्यन्वादेशे पूर्वसूत्रेणैव सामान्य विधानेन सिद्धत्वात् सूत्रारम्भ- 15 वैयर्थ्यमिति । अन्वादेशनिवृत्तौ तत्सम्बद्धमवृत्त्यन्त इति च निवृत्तम् । अत्र पूर्वोत्तरयोरिति, ननु परमाभ्यामित्यादौ परादप्यदादेशात्समासे सति स्याद्युत्पत्तिसापेक्षत्वेन बहिरङ्गादन्तरङ्गेऽवर्णस्येत्वे कृते इदंरूपाभावाददादेशाभावः प्राप्नोतीत्याह-अत्रेति । किञ्च परमपदसम्बन्धिनाऽकारेण सह एत्वलक्षणः सन्धिः प्रथममेव क्रियते तदोभयोः स्थाने यः समुत्पद्यते स लभते, अन्यरव्यपदेशमिति न्यायाधदा एकारस्य इदम् 20 शब्दसम्बन्धिता तदा एकारेण सह इदमोऽत्त्वं स्यात्ततः पूर्वस्य व्यञ्जनान्ततायामनिष्टरूपापत्तिः। यदा तु एत्वस्य इदं सम्बन्धिता न भवति तदैकारस्य स्थितिः स्यादित्यु: भयथाऽप्यनिष्टापत्तिः । एतच्चेति-कथं आग्नेन्द्रमित्यत्र प्रयोगे आकारादिन्द्रवरुणस्थस्य स्वरस्य वृद्धिर्न भवतीत्युक्तं, ततश्च यदि पूर्वमेव सन्धिकार्य स्यात्तदा निषेधोऽनेन व्यर्थ एवेत्यर्थः।
25 'अयमियं पुस्त्रियोः सौ'।२।१। ३८ ॥ पूर्ववदलौकिको निर्देशः । लुप्तप्रथमाद्विवचनान्तं पदम् । पुंस्त्रियोरिति किं ? पुंसि इयं स्त्रियां अयं मा भृत् । ननु कथमिदमुक्तं यावता नपुंसकेऽयमियमादेशनिवृत्त्यर्थं पुस्त्रियोरिति वचनं स्यात् तत्राऽऽह-नपुंसके तु नित्यत्वादित्यादि ।
१ ७-३-३४ । २ २-१-७२ । ३ प्रज्ञादिभ्योऽण् ७-३-१६५ । ४ ५-३-१०६ । ५६-२-१२६ । ६६-३-१४८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org