________________
(७८) अन्वादेशः । यूयमिति यत्प्रथममुक्तं तस्यैव च गुरवो मानयन्तीति प्रतिपादयितुं द्वितीयं कथनं तत्र वसादेशः । एवं सर्वत्र ।
'सपूर्वात् प्रथमान्ताद्वा' ।२।१ । ३२ ॥ सहशब्दो विद्यमानवचनः । पूर्वशब्दो व्यवस्थार्थः । सह विद्यमानं पूर्वपदं यस्माद् “ एकार्थ चा०" इति समासः। 5 प्रथमान्ताद्वेति-प्रथमायाः प्रत्ययत्वात् प्रत्ययः प्रकृत्यादेरित्यादिनाऽन्तस्य लब्धत्वादन्तग्रहणं न्यायानुवादार्थमिति । धनवानसीत्यादि-अनाऽन्येन कथनमन्वादेशः । यतो धनवानसीत्यस्मिन्नन्वादेशदर्शके वाक्यान्तरे प्रथममसीत्युक्तम् । अथो ग्रामे कम्बलस्ते स्वमित्यत्र तु ते इत्युक्तम् । गम्येऽप्यन्वादेशे भवतीति-यूयं धनवन्त इत्या
दिपदोपादाने हि साक्षादन्वादेशो भवति । अथो इत्यादेस्तु द्योतकमात्रस्योपादाने 10 गम्य एव । माणवक ! जटिलक! ते स्वमथो इत्यादौ तु विशेषणपदस्य जटिलक
इत्यस्य " असं दिवा० " इत्यसवं, माणवक इत्यस्य तु विशेष्यपदस्य “ असदिवाऽऽ. मन्त्र्यं० " इति नाऽसद्वत्त्वं " नाऽन्यत् ” इति निषेधात् ।
'त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते ' । २।१ ३३ ॥ त्यच्च त्यदश्च त्यदः । “त्यदादिः” इत्येकशेषः। "आवरः" इति तु न भवति, सूत्रत्वात् । शब्दार्थयोर्भेद15 विवक्षायां निरर्थकत्वेन त्यदादित्वाभावाद्वा । एताभ्यां रात्रिरधीतेति-अत्राऽविवक्षित
कर्मण इद्धातोर्योगे रात्रिलक्षणस्याऽऽधारस्य “ कालाध्वभावदेशं० " इति कालस्य कर्मत्वे ततश्चाऽधीतेत्यत्र कर्मणि क्ते सति कर्मण उक्तत्वात् रात्रिशब्दात्प्रथमा । यदि वा रात्रिसहचरितमध्ययनमपि उपचारात् रात्रिशब्देनोच्यते । ततः साऽधीतेति ।
अर्थात्प्रकरणाद्वेति-प्रथमादेशसापेक्षत्वादन्वादेशस्य । तत्राऽसामर्थ्यात् ऋद्धस्य राज्ञः 20 पुरुष इत्यादिवत्समासाभावः। सामर्थ्यात् समासश्चेत्पूर्वकथनसापेक्षस्याऽन्वादेश
स्याऽभाव इति परस्परविरोधादुभयाभावादन्वादेशाभाव इत्याह-अर्थादित्यादि । अर्थों वा तादृशो भवति प्रकरणं वा येन ताभ्यामेवाऽपेक्ष्यस्य प्रथमादेशस्य निश्चितत्वाद्वृत्तावेवाऽन्तर्भावानिरपेक्षत्वात्समासो भवति । यथा देवदत्तस्य गुरुकुलम् , वस्तु
मात्रनिर्देशं कृत्वेति-अनुवादमानं कृत्वेत्यर्थः । तत्रापि न भवति-यथा एतमातं 25 तिमित्यत्र ।
'इदमः'२।१। ३४ ॥ " टौस्यनः" इति, “ दोमः" इति च प्राप्तेऽयमपवादः। मत्पुत्रकाविति-कृत्रिमौ मत्पुत्रौ न तु पुत्राविति कः । अनुकम्प्यो वा
१३-१-२२ । २२-१-२५ । ३ २-१-२७ । ४३-१-१२० । ५ २-१-४१ । ६२-२-१३ । ७२-१-३७ । ८२-१-३९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org