________________
'पादायो'।२।१।२८ ॥ मात्राश्च अक्षराणि च मात्राक्षराणि, मियतपरिमाणानि च तानि मात्राक्षराणि च तेषां पिण्डः यद्वा मात्राक्षराणां पिण्डः, नियतपरिमाणश्चाऽसौ मात्राक्षरपिण्डश्चेति । देशनाकाल इति-देशनं देशस्तं करोति "णिज्बहुलं ना० " देश्यत इति “णि वेत्त्यास० ” इत्यनः।
'बाहहवैवयोगे'।२।१।२९॥ योग इति-चादिद्योत्यसमुच्चयाद्यर्थस्य 5 साक्षायुष्मदस्मदर्थसम्बन्धे इत्यर्थः । ज्ञानं च शीलं चेत्यत्र चशब्देन ज्ञानशीलयोः सद्वितीयता द्योत्यते, न तु युष्मदस्मदर्थयोरिति योगग्रहणमिति । अयमर्थः-योगग्रहणं विना अर्थात् प्रकरणाद्वा चादिषु गम्यमानेष्वपि स्यादिति ।
'दृश्यर्थैश्चिन्तायाम् ।२।१ । ३०॥ अत्राऽर्थे स्वरूपे वा किः । तत्र यदाऽर्थे तदा दृशिरों येषाम् , स्वरूपे तु दृशेरों दर्शनमालोचनं येषां धातूनाम् । 10 जनो वो मन्यत इति नाऽयं दृश्यो, दश्यों नाम सः यद्यक्षिसाधने विज्ञाने वर्ततेऽतो न निषेध इति ।
'नित्यमन्वादेशे'।२।१।३१ ।। नन्वत्र निषेधाधिकारे कथमिदं विधायकमभूत् । सत्यम् , नित्यं निषेधाधिकारे यन्नित्यग्रहणं तदेवं बोधयति विधानसूत्रमिदमिति । न चेदं वाच्यमत्र नित्यग्रहणाभावे " पैदात्" इति सूत्रे कथं विकल्प इति। 15 तदा हि तत्रैव नवेति कुर्यादिति । कस्यचिद्रव्यस्य काश्चिक्रियां जातिं गुणं द्रव्यं वा प्रतिपादयितुं कथितस्य तेन तदितरेण वा शब्देन पौनरुत्यं मा भूदिति विशेषान्तरं प्रतिपादयितुं पुनः कथनमन्वादेश इति यावत् , तेनाऽन्येन वेति-युष्मदस्मच्छब्दाभ्यां कृत्वा विनीतत्वादिकं विधाय पुनयुष्मदस्मद्भ्यां गुरुमाननादिकं विधीयते । अत्र स्त्रे तेनैव शब्देन कथनमस्ति, अन्येन तु कथनमुत्तरत्रैव ज्ञेयम् । पुनरन्यद्विधातुमिति- 20 पुनः शन्दोपादानात्तस्यैव कथनं यदि भवति तदैवाऽन्वादेशः । नान्यस्य कथने पुनः शन्दार्थो घटते, तेन यत्राऽन्यस्य कथनं तत्र नाऽन्वादेशः । ततश्च जिनदत्तमध्यापय एतं च गुरुदत्तमित्यत्र तस्यैव जिनदत्तस्य पुनः कथनाभावादन्वादेशाभावे "त्यैदामेन०" इत्यनेननदादेशो न भवति । यूयं विनीता इति-अन्वादेशदर्शनार्थ वाक्यान्तरमिदमुपदर्शितम् , न तूत्तरपदसम्बन्धं बोद्धव्यम् , तेन तदित्यस्य पदस्य सपूर्वत्वा- 25 मावादुत्तरेण न विकल्पः। तदित्यव्ययं तस्मादित्यर्थे । विनीततामात्रमत्राऽन्यते नाऽपूर्व किचिद्विधीयते । यूयं विनीता इति प्रथमादेशः, उत्तरस्याऽन्वादेशख्यापनार्थम् । विनीता इति विनीतत्वं प्रदिपादयितुं यूयमित्युक्तम् । तद्वो गुरवो मानयन्ति इति
१३-४-४१ । २५-३-१११ । ३ २-१-३१।४२-१-३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.