________________
रादामन्याभिधायि पदमामन्त्र्य विज्ञायत इति । तथोत्तरत्र नित्यग्रहणादस्मिन् खत्रे कथं विकल्पो न लभ्यत इति ? उच्यते-नित्यं विधास्यमानत्वादिति मणनात्, यत्रैव वस्त्रसादयो विधीयन्ते तत्रैव विकल्प उपतिष्ठते न वलसादीनां निषेधे इति ।
अथवा यद्यत्रापि सूत्रे विकल्पः स्यात्तदा किमेतत्सूत्रकरणेन ? यतोऽसदिवाऽऽमध्यं 5 पूर्वमिति कृतेऽपि वलसादयो विकल्प्यन्ते ते च " पदाधुग्विभक्त्यै० " इत्यनेनैव विकल्पेन भविष्यन्ति । श्रवणं यथा स्यादिति-अन्यथा लोप: स्यात् , " ते लैंग्वा " इत्यनेनैव । पादादिलक्षण इति-मुनिपुङ्गवा इत्यस्य पदस्याऽसत्त्वे पादस्याऽभावादित्यर्थः । मुनिषु पुङ्गवा इति सिंहादित्वात् समासः कर्मधारयो वा, व्यवहितेऽपीति
यथा मथुरायाः पूर्व पाटलीपुत्रमिति । पूर्वशब्दो वर्तत इति-अयमों यद्यव्यवहित10 स्यैव पूर्वस्याऽनेनाऽसद्वद्भावो विधीयेत न व्यवहितस्य तदा पूर्वग्रहणमपनीय असदि.
वाऽऽमच्यादित्येव क्रियेत यतः पूर्वस्याऽविद्यमानवद्भावे वस्नसाघभावःप्रयोजनं, तच्चेस्थमपि कृते सिध्यति । तथोत्तरसूत्रेऽप्येतदानुगुण्येन जविशेष्यादित्येवं विधीयेतेति ।
'जस्विशेष्यं वाऽऽमध्ये ' । २॥ १ ॥ २६ ॥ तदतद्विषयमिति-शब्दप्रधानत्वात् स्याद्वादाश्रयणेन शब्दार्थयोरैक्याद्वार्थाभावे त्यदादित्वाभावात् तच्छन्दा15 वयवयोगात् समुदायोऽपि तद् इत्यादि कृत्वा कर्मधारयकरणात् बाहुलकाद्वा नैकशेषः।
तच अतञ्च तदतदी इति द्वन्द्वे " औद्वेर " इति न, “ ने सर्वादिः” इति निषेधात् । सामर्थ्यात्तद्विशेषणभूत इति-विशेष्यस्य विशेषणाकाङ्गिण एकवाक्योपात्तत्वेन साम
या॑त् सन्निहितत्वाद्विशेष्यत्वनिमित्तमामन्त्र्य इत्येतदेव विशेषणं विज्ञायत इति। जिनाः
शरण्या-इत्यत्र शरणमिति सामान्यकर्म युष्मानिति विशेषकर्म । सिद्धाः शरण्या 20 युष्मानथो शरणं प्रपद्ये इत्यादौ "नित्यमन्वादेशे" इति वस्नसौ प्राप्तावनेन निषिध्येते,
जसिति किं साधो ! सुविहितेति-अत्र द्वयोरपि पदयोः " असे दिवा० " इत्यसवे प्राप्ते " नाऽन्यत्" इत्यनेन साधो ! इत्यस्याऽसवाभावः । “ नित्य॑मन्वादेशे" इत्यनेन च वस्नसौ । शरण्याः साधवो युष्मानिति-अत्र द्वयोरपि " असेंदिवा० " इत्यसदावः । आचार्या युष्मान् शरण्या इति-अत्राऽऽमन्यस्य विशेष्यस्य व्यवहितत्वेन 25 परत्रोपश्लेषाभावान भवति । आचार्या उपाध्याया इति-अत्र भिन्नाधिकरणयोर्न पूर्व विशेष्यं न परं विशेषणमिति सामर्थ्याचद्विशेषणभूत इति भणनान भवति ।
'नाऽन्यत्' ।२।१। २७ ॥ जस्विशेष्यमित्यस्य प्रधानतयाऽन्यदिति सम्बन्धेनेत्याह-जसिति ।
१२-१-२१।२३-२-१०८। ३ २-१-४१।४ १-४-१२। ५२-१-२५।६ २-१-३१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org