________________
(७५) - ‘पदाधुग्विभत्त्यैकवाक्ये वस्नसौ बहुत्वे'।२।१ । २१ ॥ पद्यतेगम्यते कर्तृकर्मविशिष्टोऽर्थोऽनेनेति पदम् , विभक्त्या सह सामानाधिकरण्यार्थम् । युनक्तीति युङ इति, कर्तरि क्विप्, यद्वा योजनं युङ् सममविषम संख्यास्थानम् । युग्ममिति यत् संख्यायते तेन परिच्छिन्नं वस्त्वपि युगित्युच्यते । ततः समसंख्या द्वितीयाचतुर्थीषष्ठीरूपा विभक्तयो युगशब्देनोच्यन्त इति । धर्मो वो रक्षत्विति-अत्र 5 पदादेशः पदवदिति वस् इत्यस्य पदत्वे " सोरुः ” रुत्वं बभूव । तथा " शंसो नः" " शेषे लुग्" इत्यादीनि बाधित्वा नित्यत्वानिरवकाशत्वाच्च वस्नसावेव भवत इति । एकवाक्य इति-एकं च तद्वाक्यं चेति “ पूर्वकालै० ” इत्यनेन समासे एकस्य पूर्वनिपातः ततो विशेषणस्य व्यवच्छेदकत्वात् ' सर्व वाक्यं सावधारणं भवतीति' न्यायाच्च एकस्मिन् वाक्य एव भवति, न तु पदे इति । अतियुष्मान् 10 पश्यतीत्यादौ तु यथैकस्मिन् वाक्ये तथा वाक्यविभक्त्यपेक्षया एकस्मिन् पदेऽपि युष्मदस्मदी स्त इति । तथैकस्मिन्नेव वाक्य इत्यवधारणाद्यदि पदं युष्मदस्मदी चैकस्मिन्नेव वाक्ये भवतो, न तु वाक्यान्तरे; तदा सामर्थ्याभावादेवेति-परस्परव्यपेक्षालक्षणसम्बन्धाभावादेवेत्यर्थः । किमेकवाक्यग्रहणेनेति-किं सविशेषणेन वाक्यग्रहणेन वाक्यग्रहणमेव पदव्यवच्छेदाय कर्तुं युक्तं किमेकग्रहणेने. 15 त्यर्थः । युक्तयुक्तादिति-युक्तेन युष्मदस्मत्सम्बन्धेन पित्रादिना यदयुक्तमिति स्मेत्यादि तस्मादित्यर्थः । इति स्मेत्यादि-अत्रेतिस्मेत्यादिपदं साक्षायुष्मदादिकं नाऽपेक्षते, किं तर्हि पित्रादिकमिति ? एकवाक्यग्रहणात् सामाभावेऽप्येकवाक्ये पदात परस्य युष्मदादेरादेशः सिद्धः। तथा युग्बहुत्वे इति, अप्युक्ते द्वितीयाचतुर्थीषष्ठीबहुवचनानि लब्धानि । विभक्तिग्रहणं तूत्तरार्थ इह च क्लिष्टतापरिहारार्थमिति । 20
'द्वित्वे वाम्नौ'२।१ । २२॥ द्वित्व इति भावप्रत्ययान्तेन संख्या निर्दिश्यते । संख्यायां च विभक्तिर्वर्तते न युष्मदस्मदी द्रव्यवृत्तित्वात् तयोरिति, द्वित्व इति विभक्तेरेव विशेषणमित्याह-द्वित्वविषयेति ।
'डेडसा तेमे' २॥ १ ॥ २३ ॥ दृष्टपूर्वेति-पूर्व दृष्टः " नामनाम्ना०” इति सः स्त्री चेत् ।
25 असदिवामन्त्र्यं पूर्वम्' २।१।२५ ॥ योऽर्थः स्वेन धर्मेण प्रसिद्धो धर्मान्तरसम्बन्धं प्रत्यभिमुखीक्रियते स आमन्त्र्यः । यथा देवदत्तो देवदत्तत्वेन प्रसिद्धो धर्मान्तरेऽभिमुखीक्रियते यथा पच पठेत्यादि, तत्रार्थ कायोसम्भवादुपचा
१२-१-७२ । २२-१-१७ । ३ २-१-८ । ४ ३-१-९७ । ५ ३-१-१८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org