________________
(७४) युवावौ० " इति च त्वमाद्यादेशानन्यत्र सावकाशान् बाधित्वा यूयं वयमित्यत्र सावकाशौ यूयं वयमादेशौ परत्वादुभयप्राप्तौ सत्यां तावेव भवतः । यूयकमित्यादौ कुत्सिताद्यर्थे " युष्मदस्मदोऽसोभादि० " इत्यक, एवमुत्तरत्रापि ।
'तव मम ङसा'। २। १ । १५ ।। कथं तवता ममता ? सत्यम् , स्याद्यन्त5 प्रतिरूपकाण्यव्ययान्येतानीति शब्दान्तरत्वात् सिद्धम् ।
'अमौम'।२।१।१६॥ औश्च औश्च आवौ " स्यौदावसंख्येयः " इत्येकशेषः, ततोऽम् च आवौ च अमौ तस्य अमौ; लुप्तषष्ठ्येकवचनान्तं पदम् । एकशेषाभावे तु अमा साहचर्याद्वितीयासत्कस्यैव ग्रहणं स्यात् । ननु अम् ग्रहणं
किमर्थं यावता त्वामिति निष्पाद्यम् । तच युष्मदोऽमि निमित्ते त्वादेशे " शेषे 10 लुग्" इति दस्य लुकि "सैमानादमोऽतः” इत्यमोऽस्य लुकि “ युष्मदस्मदोः" इत्य
न्तस्याऽऽत्वे च सिद्धं ? नैवम् , अन्तरङ्गेऽन्तस्याऽऽत्वे कार्य बहिरङ्गोऽमोऽकारस्य लुगसिद्ध इति ।
'शसो नः'।२।१।१७॥ ननु युष्मानित्यादौ द्वयं प्राप्नोति । " शेषे०" इत्यन्तलोपोऽनेन नकारश्च तत्र कृताकृतप्रसङ्गित्वेन नकारस्य नित्यत्वाल्लोपस्य च 15 कृते नकारे शेषत्वाभावादप्रसङ्गित्वेनाऽनित्यत्वात् पूर्व नकार एव भवतीति । यद्येवं किमनेन “शंसोऽता." इत्यनेनैव सिद्धत्वात् , नैवम् ; अलिङ्गे युष्मदस्मदी इति पुंस्त्वाभावानकारो न सिध्यतीति वचनम् । बहुव्रीह्यादावभ्युपगमे वा लिङ्गस्य स्त्रीनपुंसकार्थ प्रिययुष्मान बाह्मणीः, प्रिययुष्मान् कुलानीत्यादि ।
'अभ्यम् भ्यसः'।२।१।१८॥ कार्यिणः प्रथमं निर्देशे प्राप्ते कार्यस्य an प्रथममुपादानं प्रत्यासत्तिसूचनार्थम् । पाठापेक्षया चतुर्येव प्रत्यासन्नेति तस्या एवा
ऽऽदेशः । यद्वा " सेश्चाद्" इत्यत्र चकारो भ्यसोऽनुकर्षणार्थः । स च पञ्चमी. साहचर्यात् पश्चमीसम्बन्ध्येव गृह्यत इति पारिशेष्यादिह चतुर्थीभ्यसो ग्रहणमित्याहचतुर्थीबहुवचनस्येति । _ 'सेश्चाद'।२।१।१९॥ चकारेण भ्यसोऽनुकर्षणेऽपि भ्यसो उसेश्चैकवचनान्तनिर्देशेन द्विवचनान्तनिर्दिष्टाभ्यां युष्मदस्मद्भ्यां सह वैषम्याद्यथासंख्याभाव इति ।
'आम आकम्'।२।१।२० ॥ आमः कमिति कृते “ युष्मदस्मदोः " इत्यात्वे कृते युष्माकमित्यादि सिध्यति किमाकारकरणेनेत्याह-आकमित्यादि ।
१७-३-३० । २ ३-१-११९ । ३२-१-८॥ ४१-४-४६ । ५ २-१-६।६ १-४-४९ । ७२-१-१९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org