________________
(७३) इति निषेधात् , “ णिति " इत्यनेन वृद्धिरपि न अधातुत्वात् । कश्चित्विति-शम्दान्तरप्रवृत्त्या द्वयोरनित्यत्वादन्यत्र सावकाशत्वात् परत्वादन्त्यस्वरादिलोप इत्यर्थः । अकारस्य वृद्धाविति-अतो " णिति " इत्यनेन सूत्रेण । ननु प्रत्ययोत्तरपदग्रहणं किमर्थ स्यादावित्येव सिद्धत्वात् । न च परत्वाद् “ ऐकायें ” इति स्यादेर्लपि प्रत्ययलोप इति न्यायस्य प्रतिषेधात् स्यादेरभाव इति वाच्यम् , यत ऐकायें लुब् उच्यते- 5 ऐकायं च प्रकृतिप्रत्ययौ पूर्वोत्तरपदे चाऽऽश्रित्य भवतीति तस्य बहिरङ्गत्वाचदाश्रया लुबपि बहिरङ्गा । विभक्तिमात्रमाश्रित्य विधानात् त्वमादेशयोरन्तरङ्गत्वं, ततोऽसिद्ध बहिरङ्गमन्तरङ्ग' इति न्यायानित्यादप्यन्तरङ्गस्य बलीयस्त्वात् त्वमादेशयोः कर्तव्ययोर्खपोऽसिद्धत्वात्ताभ्यामेव पूर्व प्रवर्तितव्यं ततो लुबिति न किश्चिदनिष्टमित्याह-अन्त. रङ्गत्वादिति । ननु यदा स्यादिग्रहणमेव क्रियते न प्रत्ययोत्तरपदग्रहणं तदा त्वदीयो 10 मदीयस्त्वत्पुत्रो मत्पुत्र इत्यादौ प्रागेव परत्वाद् उसा सह तव ममादेशौ प्राप्नुतस्तत्कथमन्तरङ्गत्वात्स्यादिद्वारेणैव सिध्यतीति, सत्यम् । यो त्वमौ भवतस्तावल्पाश्रितौ यतः प्रकृतिमेवाऽऽश्रयतः यौ तु तवममौ तौ प्रकृतेः प्रत्ययस्य च स्थाने भवत इति बहाश्रितावित्यन्तरङ्गत्वावमौ प्रत्यये प्राप्नुत इति स्यादिद्वारेणैव सिध्यतीति । तव ममादेशे तु कर्तव्ये एकस्थानित्वेनाऽन्तरङ्गत्वात् परत्वाच डसो लुबेवेति । 15
'त्वमहं सिना प्राक् चाकः' ।२।१।१२ ॥ सिनेति किमिति-ननु साविति कृते दीर्घठ्याब्०” इति सेलुकि च सर्वे प्रयोगा निष्पद्यन्ते इति, न युष्मदस्मदोरित्यात्वं स्यात् । आदेशविधानसामर्थ्यान्न भविष्यतीति चेत् ? सत्यम् , तदाऽऽत्वाभावेऽस्याऽपि सेः शेषत्वं स्यात् । तथा च-" "मोर्वा " इति वा लोप: स्यात् पक्षे च चरितार्थता सूत्रस्य स्यादिति । त्वकम् अहकमिति "युष्मदस्मदोऽसोभादि०" इति अक्, 20 पूर्वमकीति निरपेक्षत्वेनाऽन्तरङ्गत्वात् । त्वामादेशे वृद्धाविति-त्वादयतीति वाक्ये कृते कि, त्वाहादेशविधानादिति त्वाहादेशौ न भवत इति शेषः। धातोरेव वृद्धिरिति मते तु त्वदयतीति वाक्यं, ननु तन्मते-त्वं, अहं, यूयं, वयमित्यादयः कथं सिध्यन्तीत्याह-ते हीति । प्रकृतिमात्रस्येति-विभक्तिरहितस्येत्यर्थः । आदेशानिति-तुभ्यमझो इयि, यूयवयौ जसि, त्वाही साविति तुम्यादीनादेशान् । जस्सीनां के प्रथम- 25 योरमित्यमादेशं, उसस्तु युष्मदस्मद्भ्यां सोसित्यकारं चेच्छन्तीत्यर्थः । स्वमते तु त्वमहमित्येव भवति । _ 'ययं वयं जसा'।२।१।१३ ॥ प्रियस्त्वं प्रियौ युवामिति वाक्यम् । एकत्वद्वित्वयोर्युष्मदस्मदोर्वर्तमानत्वात् । “ त्वमौ प्रत्ययोत्तरपदे च० " इति “ मन्तस्य
१४-३-५०।२३-२-८।३१-४-४५।४२-१-९।५७-३-३०।६२-१-११।७२-१-..।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org