________________
( ७२ )
कमेव कुर्यात् । यतो लुगित्युत्तरार्थं पृथकरणं कर्तव्यमेव, अन्यथा टाड्योसि यलकावित्यधिकारोऽग्रेतनेऽपि सूत्रे गच्छेत् इत्याशङ्कायां शेषग्रहणम् । स्त्रियामाप् न भवतीति - केवलयोर्युष्मदस्मदोर्नन्ता संख्येति लक्षणेनाऽलिङ्गत्व भणनात् । अथ बहुव्रीहौ तत्पुरुषे चाsन्यपदार्थादिप्रधानत्वेन युष्मदन्तस्य स्त्रीत्वे आप कथं न भवति ? उच्यते5 सन्निपातलक्षणन्यायाद्दलोपो ऽभ्यमः सन्निधानव्यवधाने न निमित्तम् । तर्हि युष्मभ्यमित्यादिषु केवलेष्वप्यत एव न्यायादापू न भविष्यति । किं लिङ्गानुशासनेऽनयोवर्जनेन ? सत्यम्, “न्यायानां स्थविरयष्टिन्यायेन प्रवृत्ते " विश्वासः कर्तुमशक्यः ।
' मोर्चा ' | २ | १ | ९ || ननु युवामाचष्टे इति वाक्ये णिचि, क्विपि स्यादौ युवादेशः कथं न भवति ? सत्यम्, यदा युष्मदस्मदी द्वित्वे तदा स्यादिर्न, यदा तु 10 स्यादिस्तदा न द्वित्वे इति न युवादेशः । शब्दान्तरेति - प्राक् मकारस्य पश्चात् अकारस्य
प्राप्तिः । अथवा पूर्वं युष्मिति प्रकृतेः पश्चाच्चेति प्रकृतेः । अत्राऽसर्वादित्वसम्बन्धित्वादिति - युष्मदस्मदी त्वमहंवाचके सर्वादिगणमध्ये दृश्येते । अत्र तु त्वां मां वक्ति यस्तद्वाचके इति न सर्वादिनी । अथ क्विवर्थमिति - क्विवन्तस्य युष्मच्छन्दस्य योऽर्थस्तदर्थं विप्सहिता युष्मदस्मद्रूपा प्रकृतिरेवाऽऽह-न हि प्रकृतिं विना किन्भवति । स्मिन्नादेश 15 इति तेन त्वस्मिन् मस्मिन् सन्निपातन्यायस्याऽनित्यत्वे त्वास्मिन् मास्मिन्नित्यपि । सिजसिति - एतेन प्रक्रियागौरवं निरस्तं भवति, अन्यथाऽनेन मकारलोपेऽपि प्रित्य यादिना सह त्वमहमाद्यादेशे सर्वेऽपि प्रयोगाः सिध्यन्ति ।
मन्तस्य युवावौ द्वयोः ' । २ । १ । १० ।। द्वित्व इति द्वयोरिति, द्रव्यप्रधानत्वात् सामान्यवाचिनाऽपि युष्मदस्मदर्थ एव द्वित्वविशिष्टो निर्दिश्यते, अर्थान्तरे 20 तयोर्व्वन्यभावात्तयोरेव विशेषणम् । स्यादिविशेषणत्वे तु गुणाभिधायित्वात् स्यादेर्गुणप्रधानतया द्वित्वे इति भावप्रत्ययान्तेन निर्दिश्येत । यथा “ द्वित्वे वाम्नौ " इति युवावादेशयोः सवरत्वे णिगि क्विपि तल्लोपे च युव्योराव्योरित्यादिषु फलं दृश्यम् । एवमुत्तरसूत्रे व्यिम्य, परत्वाच्च महमादय इति । यदि परत्वेन त्वमहमादयः करिव्यन्ते, तर्हि "परादन्तरङ्गं बलीय" इति न्यायाद् युवावादय एवाऽऽदेशाः प्राप्स्यन्ति, 25 न त्वमहमादयः, सत्यम् ; परत्वाद्विशेषविहितत्वेन प्रकृष्टत्वादित्यर्थः ।
6
त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ' । २ । १ । ११ ॥ त्वदयतीति, अत्र नित्यत्वादन्त्यस्वरादिलो पात् प्रागेव त्वमादेशौ पश्चादपि अन्त्यस्वरादिलोपो न लोपात् स्वरादेश इति न्यायात्, लुगस्येत्येव प्रवर्तते । तस्मिन्नपि कृते न, " नैकैस्वरस्य
35
"
१२-१-२२ । २ ७-४-४४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org