________________
( ७१ )
सत्यम्, तदाऽनित्यत्वादस्य न्यायस्य भवत्येव दीर्घः, “न्याया हि स्थविरयष्टिन्यायेन प्रवर्तन्ते " । उत्तरार्थमिति यद्यैव तत्रैव क्रियतां किमत्राऽनेन सन्देहास्पदेन ? नैवम्, केचित् सन्निपातन्यायमनित्यमाश्रित्याऽतितराणामित्यत्राऽऽकारमपीच्छन्ति, तन्मतसंग्रहार्थं व्यञ्जनग्रहणमिहाऽर्थमपि तेन स्वमतेऽपि सम्मतम् ।
,
युष्मदस्मदो: ' । २ । १ । ६ ।। अत्राऽविवक्षितार्थयोर्युष्मदस्मदोरेतावनु- 5 करणे इति त्यदादिकार्य मेकशेषः, " टाङयोसि० " इत्यनेन युष्मदस्मदादिकार्यं च यत्वादि न प्रवर्तते । अतित्वामिति - नामाधिकारात्तदन्तप्रतिपत्तौ तदन्तमुदाहरति, युष्मयतेरिति युवां युष्मान्वेति विधेयं न तु त्वामिति, णिजि सति त्वमौ स्याताम् । अमौभ्यांस्विति-अयमर्थः- द्वयोरन्यत्र सावकाशत्वात् शब्दान्तरप्रवृस्या चाऽनित्यत्वात्परत्वात् पूर्वं त्वमाद्यादेश इति । प्रथममात्वे तु सति मन्तत्वाभावाच्वमादयो न स्युः । 10 णिज्वाक्यावस्थायां यद्बहुवचनं तत्विष्वृत्तौ गौणं बभूवेति त्वमौ भवतः । व्यञ्जन इत्येवेति - ननु व्यञ्जनग्रहणं विनाऽपि युष्मभ्यमस्मभ्यमित्यादयः प्रयोगा अनेनाऽऽत्वे कृते " लुगातोऽनापः " इत्याकारलोपे सिध्यन्ति, किं व्यञ्जनाधिकारेण १ सत्यम्, सूत्रस्य व्यक्त्या प्रवर्तनादात्वे कृते लुबादिकं न प्रवर्तत इति व्यञ्जनग्रहणम् । तथा व्यञ्जनाभावे युष्माकं युषाकमित्यादौ अनेन सूत्रेणाऽऽकार एव स्यात्, न तु 15 " "मोर्वा " इति मकारलोपः । युष्मभ्यमिति - ननु लुगस्येत्यलोपे मोर्चा कथं न ? उच्यते - स्वरस्य स्थानित्वात् । तर्हि युष्मशब्दाद् भ्यसोऽभ्यमादेशे लुग् न प्राप्नोति ? नैवम्, प्रत्यासत्त्या यस्मिन् प्रत्यये लुग्भवति, तस्मिन्नेव प्रत्यये पूर्वस्य यदि कार्यं भवति तदा स्थानित्वमत्र तु प्रत्ययान्तरे लुग् अतः स्थानित्वाभावः । मोर्वेति सूत्रस्यानवकाशत्वाद्वा स्थानित्वाभावः ।
"
"
,
""
टाइयोसि यः । २ । १ । ७ ।। ओश्व ओश्व ओसौ “ स्यादावसंख्येयः इत्येकशेषः, ततष्टाश्च ङिश्व ओसौ चेति कार्यं तेन षष्ठीसप्तम्योरपि ग्रहः, अन्यथा ङिना साहचर्यात् सप्तम्या एव ओसो ग्रहणं स्यात् । अत्र ओस्ग्रहणाभावेऽपि " शेषे लुगू इति दलोपे " एस्मोसि " इत्यनेन एत्वे, " एदैतोऽयाय् ” इत्ययादेशे चाऽतियुवयोरित्यादि सिध्यति, सत्यम्; णिचि अन्त्यस्वरादिलोपे युवावादेशे " शेषे लुग् ” इत्यकारलोपेऽकारस्याऽभावात्, युव्योरित्यादौ यत्वं न सिध्यतीति ओस्ग्रहणम् ।
25
' शेषे लुक् ' । २ । १ | ८ || शेष ग्रहणामावे टायोसीत्यधिकार आगच्छेत् । न च वाच्यं टाइयोसीत्यधिकारो यदाऽभिप्रेतः स्यात्तदा टाड्योसि यलुकावित्ये
""
१२-१-१०७ । २२-१-९ । ३ ३-१-११९ । ४२-१-८ । ५१-४-४ । ६ १-२-१३ ।
Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org