________________
(१९)
महती कुले इति, श्रेयसः पश्य, श्रेयसी कुले इति तु न दयते न्सन्तत्वाभावेन व्यङ्गविकलत्वात् । ___ 'इन्हनपूषार्यम्णः शिस्योः' । १। ४ । ८७ ।। भ्रूणहानीति-हन्तेः केवलस्य किबू न दृश्यते इति तदन्तमुदाहरति-बहुपूषाणीति-पूषार्यम्णोः स्वप्रधानायां वृत्तौ शेरसम्भवात्तौ समास उपसर्जनभूतावुदाहरति । एषां शिस्योरेवेति-एषामेव 5 शिस्योरिति तु विपरीतनियमो भवति, "वश्यज्याय.” इत्यत्र युवेति “ परीणिकान" इत्यत्र तु पराणीति निर्देशात् । वृत्रहणावितिसंज्ञायां, " पूर्वपदस्था०" इत्यनेन, असंज्ञायां तु " कवगैकस्वरवति ” इति णत्वम् । तदन्तविधिमिति-ननु “ अनिनस्मन्० " इत्यत्राऽतोरनिर्देशादनर्थकेन तदन्तविधेरप्रयोगादर्थवद्रहणन्यायात कियानित्यत्रैव दीर्घः प्रामोति न गोमानित्यादौ ? सत्यम् , अतुरनर्थकोऽपि तदन्तविधिं प्रतिषेधयति 10 मत्वादीनामुकारानुबन्धकरणात् ; अन्यथा तेषामपि शत्वत् ऋकारमेवाऽनुबन्धं कुर्यात् ।
'अभ्वादेरत्वसः सौ' ।१ । ४ । ९० ॥ भवानिति-नोऽन्ते सत्यपि " आगमोऽनुपघातेन ” इति न्यायाद्भवत्येव दीर्घः ।
'क्रुशस्तुनस्तृच् पुंसि'।१।४। ९१ ।। पुंलिङ्गविषय इतिसमासेऽपि यदि पुंलिङ्गविषय एव । तेन प्रियः क्रोष्टा यस्या यस्य वा कुलस्याऽत्र न भवत्येव आदेशः। 15 अत एव व्यावृत्तिः क्लीवविषये दर्शिता । क्रोष्टोरिति-क्रोष्टोः क्रोष्ट्र इति दृश्यम् ।
'टादौ स्वरे वा'।१।४। ९२॥ नित्यत्वादितिकृताकृतप्रसङ्गिन्यायेनेति । मृगवाचीति-मृगशब्दस्याऽरण्यवाचित्वेऽपि शृगाल एवाऽर्थेऽत्र वृत्तिदृश्यते । तथापीतितुनन्तो मृगवाच्येव तृच्प्रत्ययान्तस्तु कस्मिन्विषये मृगवाचीति न ज्ञायते । तुनः स्थानप्रवृत्तेन तु तुजादेशेन ज्ञाप्यते यत्र घुटि टादौ स्वरादौ च तृच तत्रैव मृगवाचित्वम् , 20 तेन मृगे वाच्ये क्रोष्टभ्यामित्यादि न भवतीति नियमसिद्धिः।
'स्त्रियाम्'।१।४ । ९३ ॥ स्त्रियां चेति मिन्नवाक्यतयैतत्फलं यत् स्त्रियामित्युत्तरसूत्रे याति, अन्यथा पुस्त्रियोरित्येव कुर्यात् । निर्निमित्त एवेति-ननु निमित्त त्वाश्रयणे अकारान्तत्वाभावात् क्रोष्टशब्दस्य कथं डीः स्यात् ? न क्रोष्टशब्दस्य गौरादौ पाठाद् डीः स्यादेवेति ङीसिद्धिः।।
प्रथमाध्यायः समाप्तः॥
25
१६-१-३ । २३-३-२० । ३ २-३-६४ । ४ २-३-७६ । ५ प्रयोजयति इति लघुन्यासे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org