________________
(६७) व्याख्येयं व्यञ्जनान्तादेव यदि सिर्भवतीति, विहितविशेषणाद्वा यत्र एभ्यः परः सिर्विहितो भवति तत्र लुग्भवति; अत्र स्वीकारान्ताद्विहितो न व्यञ्जनान्तादिति । तर्हि या सा इत्येवमादिषु सेलुंग न प्राप्नोति ? सत्यम् , यत्रैतेषां मध्यादेकस्मादपि विहितो भवति, कार्यान्तरेषु च कृतेषु पश्चादेतेषामेव मध्येऽन्यतमस्मात्परो भवति तत्रापि भवति; तेनाऽनयोः प्रयोगयोर्व्यञ्जनान्तात्परो विहितः कार्यान्तरेषु सत्सु 5 विद्यते आबन्तादिति से ग्भवत्येव । यः स इत्यनयोस्तु व्यञ्जनान्ताद्विहितोऽस्ति, परं " आढेरः ” इत्यादिकार्येषु कृतेषु सत्सु पश्चादमीषां मध्यादेकस्मादपि परो नास्तीति न सेलप् । बहुऋभुक्षा इति " ऋलति ह्रस्वो वा” इति इस्वः, स्त्रीत्वाभावादिनः कज् न भवति; हे सुपथिन् ! हे सुपथीति “क्लीबे वा" इत्यनेन वा नस्य लोपः।
10 'ए:'।१ । ४ । ७७ ॥ पथ्यादीनामेकारस्याऽसम्भवात् , एरिति इकारत् षष्ठीत्याह ।
थोन्थ् ' । १ । ४ । ७८ ॥ अनेकवर्णत्वात् सर्वस्य प्राप्तौ थ इति स्थानिविशेषार्थमृभुक्षिन्निवृत्यर्थ च । __ 'इन् डी स्वरे लुक'।१।४।७९॥ अघुट्स्वरादाविति । जीसाहचर्यादघु- 15 टीति विशेषणं ज्ञेयं, तर्हि स्यादिमन्तरेणापि प्राप्नोतीति न वाच्यं स्याद्यधिकाराश्रयणात् डीग्रहणस्य वैयर्थ्यप्रसङ्गाच्च । सुपथी स्त्री कुले वेति व्युत्पत्तिपक्षे सुवादित्वात् उणादीनामव्युत्पन्नानि नामानीति पक्षाश्रयणादिनन्तत्वादिनः कज् न भवति, समासान्तविधिरनित्यत्वात् । “ऋक् पू:०" इत्यपि न, नान्तत्वात् “स्त्रियां नृत०” इति डी ।
'वोशनसो नश्वामध्ये सौ'।१।४। ८० ॥ यदा 'सर्वविधिभ्यो लोप' 20 इति न्याय आश्रीयते तदा सेः स्थानिवद्भावेन कार्यम् ।
'उतोऽनडुचतुरो वः'।१ । ४ । ८१ ॥ उत्तरत्र शेषग्रहणादामन्यसिरेवाऽनुवर्तते । पाश्चात्यसूत्रे साविति सामान्यभणनेऽपि सत्यपि नामग्रहणे लिङ्गविशिष्टस्येति हे अनडहीत्यत्र गौरादिनिपातनाद्वत्वाभावः, एवमुत्तरत्राऽपि । चतुःशब्दस्याऽर्थप्राधान्येनैकामन्त्रणासम्भवे समासे उपसर्जनीभृत एवोदाहियते ।
25 'वाः शेषे'।१ । ४ । ८२ ॥ अत्र सूत्रे शेषस्य घुट आघातत्वादेतत्सूत्रमुक्तः प्राक्तनस्त्रविषय इति भावः।
१२-१-४१ । २ १-२-२ । ३ २-१-९३ । ४ ७-३-७६ । ५ २-४-१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org