________________
(६६) फलमौणादिकस्य । यथा भवतुशब्दो " भातेर्डवतुः” इति व्युत्पादितोऽपि सर्वादौ । प्रियपुमानिति बहुत्वे वाक्यं, एकत्वे तु " पुमनडुन्नौ०" इति कच् स्यात् । डीहस्वपुवद्विकल्पेति डीः, इस्वपुंवतोश्च विकल्पः ।
'ओत औः'। १।४ । ७४ ॥ चित्रगुरित्यत्र परत्वात्पूर्व इस्वत्वे कृते 5 पश्चात् घुटि ओकाराभावादोत इति वचनादौकारो न भवति, वर्णविधित्वाच्च स्थानिवढ़ावो नाऽस्ति । अथ हे चित्रगो! इत्यत्रोकारस्य विद्यमानत्वादुभयोः स्थानिनोः स्थाने इति न्यायेन ओ र्व्यपदेशे सति प्राप्नोति कस्मान्न भवति ? उच्यते-यदौकारव्यपदेशस्तदा लाक्षणिकत्वान्न भवति ।
'आ अम् शसोऽता'।१।४।७५॥ नन्वत्राऽतेति किमर्थं ? यत एतद्विनाऽपि 10 गा इत्यादि प्रयोगजातं "समानानामिति" दीर्घ सिध्यतीति ? उच्यते-अतेति पदं विना
पुंलिङ्गे "शसोऽता." इति स्त्रीलिङ्गे "लुंगात०” इति प्रवर्तेयातां, ततश्व गान् गः इत्याघनिष्टं स्यात् , स्थिते तु " शसोऽता० " इत्यनेनैव दीर्घस्य सन्नियोगेऽकारोऽभाणि ।
'पथिन्मथिनृभुक्षः सौ'।१।४। ७६ ॥ अत्र घुटिति सम्बन्धात्साविति श्लिष्टनिर्देशेन सुपन गृह्यते । पन्था इत्यत्र सानुनासिकस्याऽप्यादेशो भवन् 15 " लिलौ” इत्यत्र द्विवचनेन ज्ञापितत्वान्निरनुनासिक एव भवति । पथीरिति, पन्था
नमिच्छति क्यनि नलोपः स च "दीर्घवि." इति परे कार्येऽसन्न भवति, यतो "रात्स" इत्यतः प्रागेव यत्सूत्रं तदेवाऽसद्भवति, इदं तु " रात्स" इत्यतः परमिति नाऽसत् , ततः पथीयतीति किपि अल्लोपे यलोपे चेदं रूपम् । नन्वनेनाऽऽत्वरूपे स्यादिविधौ विधातव्ये नलोपस्याऽसिद्धत्वान्नाऽन्तत्वमिति । न च वाच्यं, अत इत्यलुकः स्वरस्य 20 परेऽनेन स्थानिवद्भावेन नान्तत्वानुपपत्तिरिति । यतः प्रत्यासत्तेर्यनिमित्तो लुग्विधिः
रपि यदि तन्निमित्तो भवतीति व्याख्यानात् । अत्र त्वस्य लुक् क्विपि आत्वं तु सौ प्रत्यये प्राप्नोतीति कृत्वाऽत्र नान्तत्वमस्त्येवेति प्राप्नोत्यात्वं, सत्यम् , नान्तेतिव्यावृत्तिबलादेव न भवतिअन्यथा यत्र कुत्रापि नलोपस्तत्र सर्वत्राऽप्यमीषां पथ्यादीनां
ध्वनीनामनेनाऽऽत्वलक्षणे स्यादिविधौ कर्तव्ये " णषमसत्परे” इति न्यायेन 25 नलोपस्याऽसिद्धत्वेनान्तत्वसद्भावादात्वं भवेदेवेत्यत्र सूत्रे नान्तनिर्देशोऽनर्थकः स्यात् ।
तस्माद्यत्र साक्षान्नान्तत्वममीषां भवति तत्रेदं प्रवर्ततेऽन्यत्र तु व्यावृत्तिरिति सर्व समीचीनं, तर्हि " दीर्घयाब ० " इति सूत्रेण सेर्लुक्कस्मान्न भवति ? यतोऽयमपि स्यादिविधिः, स्यादिविधौ च नलोपोऽसद्भवतीति; सत्यम्, “दीर्घयाबि"त्यत्र सावधारणं
१ उणा० ८८६ । २ ७-३-१७३ । ३२-१-१०७ । ४ १-३-६५ । ५४-३-१०८ । ६२-१-९० । ७२-१-६० । ८ १-४-४५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org