________________
10
(६५) फलं “प्राण्यौषधि०” इत्यादिनाऽण् तस्य लुप्तस्य विकारो “विकारे" पुनरण, तुम्बुरुणो वृक्षस्य विकारश्चूर्णमेकस्मिन्नणि वा नामिन इत्येवेति, क्लीबे नाम्यन्तसत्के स्यादौ विज्ञानात् कुलयोरित्यत्रत्वे कृते न नागमः । द्वयोरित्यत्रापि आदेशादागम इति नोऽन्तः प्राप्तो न परत्वात् अन्तरङ्गत्वाच्च वर्णेन येन " आद्वेर" इत्यत्वं, पश्चादेत्वे कृते सकृदिति न्यायः । " स्वराच्छौ " अत इत्येवेति । नन्विवर्णादेः " अनामस्वरे नोऽन्त " 5 इति शौ नागमः सिद्ध एव, आकारान्तस्य तु अन्त्यस्य नपुंसके इस्वविधानात् स्थितिरेव नाऽस्तीति, अत इत्येव युज्यते किं स्वरग्रहणेन ? अत आह उत्तरार्थमिति ।
'धुटां प्राक्' । १।४। ६६ ॥ प्रागित्यनेन सह सम्बन्धाभावात् धुटामित्यत्र “ प्रर्भूत्यन्यार्थ० " इति न पश्चमी । गोमन्ति, " दुदित" इत्यनेन परत्वानोऽन्तेऽनेन नोऽन्तो न भवति ।
'घुटि' । १ । ४ । ६८ ।। अधिकारोऽयमिति । नपुंसकस्य परतो नोऽन्तो न भवतीति विधिरेव कस्मान्न भवति ? उच्यते-नपुंसके शिमन्तरेणाऽन्यस्य घुट्त्वाभावात्तत्र स्वराच्छावित्यादिभिर्नागमस्य विहितत्वात् पारिशेष्यादधिकारोऽयमिति । ___ 'ऋदुदितः । १ । ४ । ७० ॥ पृथग्योगो भ्वादिव्युदासार्थ इति अयमभिप्रायः । “ उँदितः स्वरान्नोऽन्त " इत्यत्र धात्वधिकाराद् भ्वादेरुदित उदितः स्व- 15 रादित्यनेनैव सिद्धत्वादत्र "उदितः" पृथगारम्भादुदितोऽम्वादेरेव, तत्साहचर्यादितोऽप्यन्वादेरेवेति नियमात् , सम्राडित्यादौ न भवति ।
'युज्रोऽसमासे'।१।४ । ७१ ॥ असमासे इति-स्याद्याक्षिप्तस्य नाम्नो युज्र इति विशेषणात्तत्र च तदन्तविधेर्भावात्समासेऽपि प्राप्तिरिति असमासग्रहणं, इदमेव च ज्ञापयति अत्र प्रकरणे तदन्तविधिरस्तीति ।
20 __'अनडुहः सौ'।१।४ । ७२।। सत्यपि नामग्रहणे इति न्यायेऽनडुहीत्यादौ धुडन्तत्वाभावान्न भवतीति । ननु अनवानित्यत्र " स्रंसध्वंसक्कस्स० " इति दकारः कथं न भवति ? सत्यम् , प्राप्नोति परं विधानसामर्थ्यान्न भवति । __'पुंसोः पुमन्स्' । १। ४ । ७३ ॥ पुंसो रुदित्वादिति । ननु " पातेडेम्सुः " इत्युदनुबन्धः कृतोऽस्ति तेनापि प्रियपुंसीतरा इत्यादि रूपत्रयं सेत्स्यति किमत्रोदनु- 25 बन्धेन ? उच्यते-यदाऽव्युत्पत्याश्रयणं तदाऽत्र सूत्रे कृतस्योकारस्य फलम् , व्युत्पत्ती तु
१ ६-२-३१ । २ ६-२-३० । ३ २-१-४१ । ४ १-४-६५ । ५ १-४-६४ । ६२-२-७५ । ७ १-४-७० । ८४-४-९८ । ९२-१-६८ । १० उणा० १००२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org