________________
(६४) 'नामिनो लुग्वा'।१।४ । ६१ ॥ प्रियतिसृ कुलमिति, "ऋदुशनस्०" इत्यत्र घुटः सेर्ग्रहणादत्र क्लीवत्वेन घुट्वाभावे सेः स्थानित्वेऽपि न डाः ।
'वाऽन्यतः पुमांष्टादौ स्वरे'।१।४।६२॥ पुंवद्वेति-परार्थे प्रयुज्यमानः शब्दौ पतिमन्तरेणाऽपि वत्यर्थं गमयति, अत्राऽपि परार्थो नपुंसकस्तत्र हि 5 प्रयुक्तः पुमानति । ग्रामण्या ग्रामणिनेति, ननु पूर्व क्विब्वृत्तेरित्यादिना यत्वं कस्मान
भवति ? सत्यं, इदुतोऽस्त्रेरित्यत्र त्रिवर्जनेन परमपीयुत् यत्वादि, इदुदाश्रितत्वेन बाध्यते इति भणनात् । 'आदेशादागम' इति न्यायाद्यत्वं बाधित्वा नोऽन्तः । ग्रामण्येति ग्रामणीशब्दस्याऽनेन पुंवत्त्वे इस्वनागमाभावः । कर्तृणामिति द्वयोरपि " ह्रस्वा
पश्च" इति नाम् , न तु पुंस्त्वपक्षेऽनाम्स्वर इत्यनेन नोऽन्तस्तत्राऽऽमो वर्जितत्वावि10 तीयप्रयोगो रूपनिर्णयार्थो दर्शितः । न तु तस्य किश्चिदत्र फलं कुमार्येति, अत्र
यद्यपि कुमारीशब्दः पुंवत्तथापि नित्यस्त्रीविषयत्वादीकारस्य “ स्त्रीदूतः” इति दैः । कल्याण्यै इति शोणादित्वाद् डीः।
'दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान्' ।१।४। ६३॥ कचू न भवति, “ kध्युरः सर्पि० " इत्यनेन प्राप्तः, " अक्ष्णोऽप्राण्यङ्गे ” इत्यप्यनित्यत्वान्न, अतिद15 न्या स्त्रियेति, यदात्र " इतोऽक्त्यर्थात् ” इत्यनेन डीस्तदा तद्व्यवधानादनेनाऽऽ
देशाभावेऽतिदध्येत्येव भवति, यदा तु दध्यतिक्रान्तं ययेति बहुव्रीहिस्तदा "दध्युर:सर्पि० "इत्यनेन कचा भाव्यं, तस्माद्दध्यतिक्रान्तयेति तत्पुरुष एव न्याय्यः । ___ 'अनाम् स्वरे नोऽन्तः'।१।४।६४॥ अनाम् चाऽसौ स्वरश्च अथाम्वर्जात्स्वरे
लब्धे स्वरग्रहणं टादावित्यधिकारनिवृत्त्यर्थ, अन्तग्रहणं विना नस्य प्रत्ययत्वं स्यात्तथा 20 च निमित्ताभावेति तिस्रादेशो निवर्तेत, तथा 'प्रत्ययाप्रत्यययोरिति' न्यायेनाऽस्य नका
रस्य प्रत्ययस्याऽपि सम्भवे वनानीत्यादावेव दीर्घः स्यान्न तु राजानमित्यादौ । प्रियतिसृण इति यदि पूर्व नागमः स्यात्तदानीं किं विनश्येत् , यतः स्वाङ्गमव्यवधायकमिति कृत्वा कृतेऽपि नागमे तिस्रादेशो भविष्यति, ' आगमा यद्गुणीभूतास्तद्हणेन गृह्यन्ते'
तत्कथं परत्वादित्युक्तं ? अत्रोच्यते, यस्माच्छब्दानागमः समानीतस्तस्य यदि किमपि 25 प्राप्नोति तदानीमयं न्याय उपतिष्ठते, अत्र तु प्रियत्रिन् इत्येतस्य न किमपि प्राप्नोति,
अपि तु त्रिअवयवस्य तिस्रादेशः, ततश्चाऽवयवस्याऽवयवेन व्यवधानं न तु अवयवेनाऽवयविनः, यथा देवदत्तस्य श्मश्रु न दृष्टं हस्तेन व्यवहितत्वात् , नहि कोऽपीत्थं वदति यदुत देवदत्तो न दृष्टो हस्तेन व्यवहितत्वात् , तौम्बुरवं चूर्ण तुम्बुरुणो विकारः
११-४-८४ । २१-४-३२ । ३ १-४-२९ । ४७-३-१७२ । ५ ७-३-८५। ६ २-४-३२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org