________________
(६३) 'अष्ट औ जस्शसौः' ।१ । ४ । ५३ ॥ इत्यत्र अष्ट इति ज्ञापकात् डेरनुवृत्तिन भविष्यतितर्हि मतान्तरसंग्रहार्थम् ।
'डतिष्णः संख्याया लए'।१।४। ५४॥ सन्निपातलक्षणत्वादिति, सन्निपतति कार्यमस्मिन् सन्निपातो निमित्तं शिलक्षणं स लक्षणं चिह्नं यस्य नस्य । ___'नपुंसकस्य शिः'।१।४ । ५५ ॥ स्त्री च पुमांश्च स्त्रीपुंसौ "स्त्रियाः पुंसो.” 5 इति समासान्तः, न स्त्रीपुंसौ नखादित्वान्नञोऽदभावः, पृषोदरादित्वात्स्त्रीपुंसशब्दस्य पुंसक आदेशः।
'औरीः' । १ । ४ । ५६ ॥ कार्यकार्यिणोरभेदनिर्देशः सर्वादेशार्थः, अन्यथा " षष्ठयाऽन्तस्य" इति न्यायाद्विश्लिष्टावर्णस्यौकारस्य स्यात् , यतो अ ओ इति प्रकृतौ " ऐदौत्सन्ध्यक्षरैः " इत्यनेनौकारो निष्पादितः ।
__10 'अतः स्यमोऽम् ।।१४ । ५७ ॥ नन्वत्र अग्रहणं किमर्थ, न च वाच्यमद्हणाभावे दधीत्यत्राऽप्यमादेशः स्याद्यतोऽनतो लुबिति सूत्रं बाधकं विद्यते इति ? ननु अनत इत्यत्र प्रसज्यप्रतिषेधः पर्युदासो वा नञ् गृह्यत इति सन्देहः, न च वाच्यं पयुदासाश्रयणे हि नामिनो लुबिति सूत्रं कुर्यात् तस्मात्प्रसज्य एव, इदमपि न वाच्यं, कुतः काष्ठापरं प्रकर्षमध्यायक इत्यत्र क्रियाविशेषणत्वे आकारादप्यमो लुग्दृश्यते, 15 अतोऽनत इति कर्तव्यमेव, अतः सन्देहस्तदवस्थ एवाऽतोऽतो ग्रहणेन ज्ञाप्यते प्रसज्य एव गृह्यते, तथा च पय इत्यादौ लुप् सिद्धा न त्वमादेशः । अदिति नपुंसकस्य विशेषणमन्तस्तदन्तप्रतिपत्तिर्भवतीत्याह-अकारान्तस्येति, अम्ग्रहणमुत्तरार्थ, तेनाऽन्यत्पश्येति ।
'पश्चन्तोऽन्यादेरनेकतरस्यदः'।१।४ । ५८ ॥ पञ्चसंख्या परिमाणम- 20 स्य “ पैश्चद्दशद्वर्गे वा" समासान्तः ।
'अनतो लुप्'।१।४ । ५९ ॥ नन्वनत इति किमर्थ, न च वाच्यं कुंडमित्यत्रापि स्यात्, “ अंतः स्यमोऽम् " इति बाधकात् १ अत्रोच्यते, अनत इत्यभावे " पञ्चतोऽन्यादे"रित्यतोऽन्यादेरित्यागच्छेत् , न च वाच्यमन्याद्यभीष्टौ ह्येकमेव योगं कुर्यात् , पूर्वमेकतरवर्जितस्याऽन्यादेर्ग्रहणमिति पृथग्योगस्य साफल्यात् । 25 हे कत! इत्यादौ निरवकाशत्वात्प्रथमं सिलोपे प्रत्ययलोपलक्षणन्यायेन इस्वस्येति गुणः कस्मान्न भवतीत्याह-लुकमकृत्वेति ।
१७-३-९६।२७-४-१०६।३१-२-१२। ४६-४-१७५।५१-४-५७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org