________________
(२) 'दीर्घड्याव्यञ्जनात्सेः'।१।४ । ४५॥ कुमारी ब्राह्मण इत्यत्र नैषां क्विवादीनां डीस्योर्व्यवधायकत्वे, स्थानित्वम् । यतः स्थान्याश्रये वृद्ध्यादिके कार्ये कर्तव्ये स्थानित्वं, न तु व्यवधायकत्वे, नहि व्यवधायकत्वं कार्य नाम अपि तु वृद्ध्यादीनि कार्याणीति; एवमच्योढमित्यादिषु सिचो लोपस्य ढत्वे कर्तव्ये न स्थानित्वम् । 5 'समानादमोतः।।१।४।४६ ।। अचिनवमिति, न च वाच्यं परत्वाभित्यवाच्च गुणेन भाव्यमिति, प्राप्तौ हि सत्यां हि परत्वं नित्यत्वं च चिन्त्यत इति ।
'दी? नाम्यतिमृचतसृषः' । १ । ४ । ४७ ॥ आमादेश इति, स्याद्यधिकारादामादेश गृह्यतेऽत इदमुक्तं अषू इति, ननु षकाररेफाम्यां व्यवधानादेवं न
भविष्यति दीर्घः, किं पूवर्जनेनेत्याह-नकारेणेति, अन्यव्यञ्जनेन तु असम्भव इति । 10 'शसोऽता सश्च नः पुंसि'।१।४। ४९ ॥ समानस्येति, अत्र यद्यपि
समानस्य शसोऽकारस्य च स्थानित्वं, तथापि 'प्रधानानुयायिनो व्यवहारा भवन्तीति' प्रधानस्थान्यासन्न एव दी? भवति, प्रधानत्वं च षष्ठीति निर्दिष्टस्य समानस्येवेति 'प्रधानस्थान्यासन्न' इति वचनात् मुनीनित्यादौ शसोऽकारस्याऽवर्णहविसर्गेत्यासन्नत्वे
ऽप्याकारो न भवति । 15 'संख्या सायवेरहस्याहन डो वा' ।। ४ । ५० ॥ अण्विषये इति,
द्वयोरबोर्भवो दिगधिकमिति तद्धितविषये सेऽण्विषयेऽटि अलादेशः, शाकटा. यनस्तु “ वर्षाकालेभ्यः " इकण्विषयेष्ट्प्रत्ययमिच्छति, स्वमते तु न, व्यह्न इत्यस्याऽकालवाचित्वात् । यावदह्नि इत्यादिषु दुसंज्ञकेषु दोरीयविषयेऽटि तत ईयस्तस्य
च । " द्विगोरनपत्ये०” इति लुक, व्यहे इति, “ द्विगोरह्रोऽ० " इत्यत्राहन • ग्रहणज्ञापकात् “ सर्वांश० ” इति परमप्यटं बाधित्वा “ द्विगोरहोऽ० " इत्यद 20 ततोऽह्वाभावः।
'निय आम्'।१।४। ५१ ॥ अस्याम, “ आमो नाम्वा” इति नामादेशो न भवति, तत्र नित्यस्त्रीदतोऽधिकृतत्वात् , नन्वेकदेशविकृतेति क्लीबेऽपि प्राप्तिरस्ति, न, निय ईनी इति, ईकारप्रश्लेषात् , निनिग्रामणिनि इत्येव भवति, भोजेन तु
भूतपूर्वन्यायेन नपुंसके नियामित्युक्तम् ।। 25 'वाऽष्टन आः स्यादौ'। १ । ४ । ५२ ॥ पूर्वसूत्राद् डेरनुवृत्तिर्मा भूदिति
स्यादिग्रहणं, अथ
१६-३-८० । २६-१-२४ । ३ ७-३-९९ । ४ ७-३-११८ । ५ १-४-३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org