________________
(६१) कारो निमित्तान्तरसव्यपेक्षः प्रत्यासत्तेरनन्तरसूत्रोपात्तमेव निमित्तमुपस्थापयति, कर्तृणि जले पितरि वारिणीत्यादावुभयोः सावकाशत्वेन । ___ 'मातुर्मातः पुत्रेऽर्हे सिनामन्त्र्ये ।। ४ । ४० ॥ ननु कथं मातृशब्दस्य पुत्रार्थे वृत्तिर्न ह्यसौ पुत्रार्थे वर्तमानः क्वचिद्दष्ट इत्याह-सामर्थ्यादिति । अयमर्थः केवलो न वर्तते बहुव्रीहौ तु स्वार्थोपसर्जनतयाऽर्थान्तरं प्रतिपादयत्येव, कचोऽपवाद इति, 5 अनन्तरानन्तरिमावे षष्ठीव्याख्येया, तेन कचा व्यवधानेन स्यात् , सम्भावित उत्कर्षो यस्याः सकाशात् , तत्पुत्र इति व्यपदेशः कथनं तस्य योग्यं, अरे गार्गीमातृकेतिअज्ञातपितृकत्वेनाऽनेकपितृकत्वेन च निन्धया मात्रा विगुणः पुत्रो निन्द्यत इति ।
'इस्वस्य गुणः' । ११ ४ । ४१ ॥ अधिकृतस्य नाम्नो विशेषणाद्विशेषणेन च तदन्तविधिसम्भवादाह-इस्वान्तस्येति श्रुतत्वादिति, श्रुतो इस्वो ह्रस्वान्तत्वं त्वनु- 10 मितं, ' श्रुतानुमितयोश्च श्रौतो विधिर्बलीयान्'इति न्यायः, ह्रस्व विधानेति-'उभयोः स्थाने य' इति न्यायेन यदा सिव्यपदेशस्तदा सिईस्वश्चाऽस्ति, अतो विधानसामर्थ्यात् , यदा तु इस्वव्यपदेशस्तदा सेरभावान्न भवति ।
'एदापः' । १ । ४ । ४२ ॥ आश्वाऽसावाप्चान्त्याकारप्रश्लेषात् , हे प्रियखट्वेत्यत्र “ गोश्चान्ते. ” इति इस्वत्वे 'एकदेशविकृते ति न्यायात्प्राप्तोऽप्येका- 15 रादेशो न भवति । ___ 'नित्यदिदद्विस्वराम्बार्थस्य इस्वः'।१। ४ । ४३ ॥ शं गृणाति शृङ्गरुः ऋषिस्तस्याऽपत्यं शाङ्गरवी । हे अक्केति-अक् कुटिलायां गतावित्यस्य “निष्कतुरुष्क०" इत्यादिना निपातनात्कप्रत्यये । अततेः " {तपित्त, " इति ते निपातनादत्ता, अली भूषणादौअस्य " भिल्लाच्छभिल्ल० " इत्यादिनिपातनाल्लेऽला । हे हूहूः ?-जहातेः पृषो. 20 दरादित्वादप्रत्यये द्विवचनादौ । हे वातप्रमीः ? नायऽमीकारान्तो नित्यदित् किन्तु पुल्लिङ्गोऽपि, हे सुम्विति-" केवयु० " इति निपातनाद्धाम्यतेश्रु । शोभनं भ्रु भ्रमण यस्याः सुभ्रशब्दाद्भीरुध्वनेश्च जातित्वादुङ, परस्य विकल्पेन दित्वात् हे सुभ्रः, ! हे भीरो! प्राप्तमित्यभिप्रायः ।
'अदेतास्यमोलक्' ।। ४ । ४४ ॥ आमन्व्य इति वर्तते । तत्र च 25 स्यादेश एवाऽम्सम्भवतीत्याह-स्यादेशेति । हे कतरदिति-ननुअम्ग्रहणस्याऽन्यदपि फलं कस्मान्न भवति, यथा कुम्भस्य समीपानि हे उपकुम्भमित्यत्र लुगथं ? नैवं, सिसाहचर्यादेकवचनादेशस्याऽमो ग्रहणं, न बहुवचनस्थानस्य ।
१२-४-१६ । २ उणा० २६ । ३ उणा० २०४ । ४ उणा० ४६४ । ५ उणा० ७४६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org