________________
(६०) नामिति अथाऽष्टन्शब्दादामि परत्वात् “ वाष्र्टन० " इत्याकारे नान्तत्वाभावात्कथं नाम् भावोऽत आहाऽऽम् तद्भवनान्ताया अपीति ।
'बेस्त्रयः।१।३ । ३४ ।। आमः सम्बन्धिन इति, सम्बन्धस्योभयनिष्ठत्वं आमः सम्बन्धिन इत्यपि युक्तं, आमः सम्बन्धित्वं च त्रेर्थद्वारकं, यस्मादामः 5 सम्बन्धी प्रेर्थस्ततः स आम इत्युच्यते, आम्सम्बन्धीति-कार्यकारणभावे षष्ठी । त्रिशब्दः कारणमाम् च कार्य, यया त्रिशब्दबहुत्वे आम् ।
'एदोद्भ्यां ङसिङसोर'। १ । ४ । ३५ ॥ सूत्रतकारस्वरूपग्रहणार्थः, तेन लाक्षणिकयोरप्येदोतोः परिग्रहः । परमेरिति-" आतो नेन्द्रवरुणस्य ” इति ज्ञापकात्पूर्व पूर्वोत्तरपदयोः कार्य ततः सन्धिकार्यमतः परमैरिति प्राप्नोति ? नैवं, 'ज्ञापकज्ञापिता 10 विधयो ह्यनित्या' इति ।
'खितिखीतीय उर्'।१।४।३६ ॥ इति सायते दीयते स्म पुण्यैः सातं सातिः सौत्रः, सुखे सातति वा मुख्य इति अत्र विचि कृते “ य्वोः प्वऽय. " इति यस्य लुग्न, यतः " स्वरस्य परे०” इति णिलोपः स्थानी। न च " ने सन्धि० "
इत्यस्याऽवकाशः, 'ना निर्दिष्टस्याऽनित्यत्वात्', भवतु वाऽवकाशस्तदेदमुत्तरं "वोः 15 प्वऽय" इति सूत्रे लुग इति संज्ञा, संज्ञापूर्वको विधिरनित्यो यद्वा " को " इति सूत्रकरणात् किचिचोव्यञ्जनकार्यमनित्यं यतो प्रयोगिनामुपलक्षणः किम् ।
'ऋतो डुर'। १ । ४ । ३७ ॥ ऋकारापदिष्टं लकारस्याऽपि, तेन ऋफिडा. दिलत्वे कुल्लकारः यदाह उपाध्याय:-आप्ल इत्येतस्मात् षष्ठथामाप्ल इत्येव भवति ।
'तृस्वसृनप्तृनेष्टुत्वष्वृक्षत्तृहोतृपोतृप्रशास्त्रो घुट्यार'।१।४। ३८ ॥ 20 सूत्रत्वादनाम्स्वर इति न । सूत्र ऋकारोपादानाद्वा, कथमिति चेत् ? प्रशास्तृणामृः
प्रशास्तृस्तस्य । अतिकर्तारमिति-अत्र तत्पुरुषो न बहुव्रीहिः कचप्रसङ्गात्तेन च व्यवधानेन प्राप्त्यभावात् , नन्वत्र सूत्रे शौ निमित्ते किं न दर्शितम् । — स्वराच्छौ ” इति न्यागमव्यवधानान प्राप्नोतीति चेन्न नागमः प्रकृतेरेवांश इति, सत्यं; अवयवेना
ऽवयवस्य ऋल्लक्षणस्य व्यवधानं भवतीति न दर्शितम् । 25 अझै च'।१ । ४ । ३९ ॥ डौ घुटि चेति-अत्र निमित्तात्परः श्रूयमाणश्च
११-४-५२। २७-४-२९ । ३४-४-१२१ । ४७-४-११०। ५७-४-१११ । ६४-४-११९ । ७१-४-६५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org