________________
(५८) 'इदुतोऽस्त्रेरीदूत्' १।४ । २१ ॥ पठ्याऽन्तस्येति निर्दिश्यमानेति वा इदुतौ स्थानिनौ विधानेत्यन्यथा ईकारमेव विदध्यात् ।
'ङित्यदिति'।१।४।२३ ॥धेनवे विधीयतेऽस्य पेय इति बाहुलकादपादाने, " धेः' शित्" इति नुः, कर्मणि तु क्यः स्यात् , नपुंसके त्वसम्भवित्वान 5 दर्शितं, तत्र हि " अनाम्स्वरे० " इति नोऽन्तेन भाव्यं, बुद्ध्यै इत्यादि-नन्विकारो
कारमात्रापेक्षत्वात्पूर्वमेव एदोतौ स्यातां तदा याद्यादेः स्त्रीत्वविशिष्टेकारोकारापेक्षत्वेन बहिरङ्गत्वात्कृतयोरप्येदोतोरिकाराभावाद्वर्णविधित्वाच्च स्थानित्वाभावाद्देदासाद्यादेशाभावात्प्रतिषेधो न युक्तः। न च तदन्तादादेशविधानाद् अवर्णविधित्वात्स्थानि
त्वमप्रधानेऽपि वर्णविधिप्रतिषेधात् एवं तर्हि अनवकाशत्वात्पूर्व दैप्रभृत्यादेशाः 10 प्रवर्तन्ते, पश्चाददिति प्रतिषेधस्तथापि इदुत्सन्निपातेन जायमानत्वादैदासाद्यादेशेनैव
एदोद्भाधो भविष्यतीति अदिति प्रतिषेधो व्यर्थः, यद्येवं यत्वमपि न प्राप्नोति तस्माददितीति प्रतिषेधो वर्णविधावयं न्यायो नोपतिष्ठत इति ज्ञापनार्थः, तेन दैदासादिषु कृतेष्वेदोतौ न भवतः।
'ङिडौं'।१।४ । २५ ॥ बुद्धयामिति, ननु दाम्करणसामर्थ्यादेव डौन 15 स्यात् , किं व्यावृत्त्या ? न ङित्यदितीत्येत्वनिषेधकत्वेन तस्य चरितार्थत्वाड्डौः स्या
दिति व्यावृत्तिः सफला । यदा " इश्च स्थादः ” इत्यत्र सिज्लोपविधायकत्वेन इस्वकरणस्य चरितार्थत्वे गुणबाधकं कित्करणं, किश्च यथासंख्यार्थं दाम्ग्रहणं कार्य, अन्यथेदं सूत्रमन्यथा, उत्तरं चाऽन्यथा कार्य स्यात्तथा च गरीयसी रचना स्यादिति ।
'केवलसखिपतेरी'।१।४।२६ ॥ सख्यि इति. अत्र “ स्थानीवाऽवर्ण20 विधौ " इति न्यायात क्विपः स्थानित्वे सति " यवोः प्वऽय” इति यलोपः कस्मान भवति ? 'असिद्धं बहिरङ्ग मिति न्यायादन्तरङ्गे क्विबाश्रिते कार्ये यत्वमसिद्धं द्रष्टव्यम् ।
'न नाडिदेत् ।१।४।२७॥ सखिपतेर्नाडिदेता सह न यथासंख्यं, "र्खितिखीती.” इत्यत्र सूत्रे खितिग्रहणात्सख्युरितो निर्देशाद्वा । सख्याविति-अत्राऽऽ
देशे कृते " ङित्यदिति " इति प्राप्नोति न तु पूर्व, यतस्तद्धाधकं “ डिंडौँः ” ततोऽपि 25 " केवलसखि० "इत्यौत्वं ततस्तदादेशेति न्यायात्स्यादित्वे सति एत्वं प्राप्तं निषिद्धम् ।
__ 'स्त्रियां डितां वा दैदास्दास्दाम्' । १ । ४ । २८ ॥ " पर्युनः” इति
१ उणा० ७८७ । २ १-४-६४ । ३ ४-३-४१ । ४ ७-४-१०९ । ५ ४-४-१२१ । ६१-४-३६ । ७१-४-२३ । ८१-४-२५। ९२-४-४८ ।
Jain Education International
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org