________________
(५७) निषेधः किं योगग्रहणेन ? उच्यते, योगग्रहणादन्यदपि सिद्ध, अपरैः सामान्येन तृतीयान्तेन योगे प्रतिषेधः कृतो, न तृतीयान्तात् , तेषां मते पूर्वाय मासेनेत्यपि भवति, तन्मतसंग्रहार्थं तु पूर्वदिग्योगेऽपि पञ्चमी व्याख्येया।
'अवर्णस्यामः साम् ।। १ । ४ । १५॥ परस्पराद्यामः सामादेशे तत्रैव सामादेशे(शः) एवोच्यते( च्येत ), परोक्षादेशस्तु आम् धातोर्विधीयमानः सर्वादेर्न 5 सम्भवति, “ कर्तुः किप्०” इति क्किप्प्रत्ययान्ततायां सम्भवेऽपि स्यादेरित्यधिकारानिरस्यत इत्याह-षष्ठीति ।
'आपो ङितां यै यास् यास् याम्'।१।४ । १७ ॥ आबन्तेति, पूर्वसूत्रेषु सर्वादेरव्यभिचारेऽप्युत्तरसूत्रे सर्वादिग्रहणादिह सामान्यमवगम्यते इति । कारीषगन्ध्याय, अणि अणन्तत्वाद् “ अणबेये.” इति इजि तु " नुर्जातेः' इति ङीः प्रामोति ? 10 नैवं, अत्र ध्यादेशः समजनि, “ अणबेयेकण्० "इति सूत्रे स्वरूपस्याऽणो ग्रहणं, न ध्यादेशरूपस्य, एतद् व्याख्यानतो लभ्यते, इञस्तु इकारान्तस्य डीरुक्तः।
'सर्वादेर्डस्पूर्वाः'।१।४।१८॥ अस्य, इदंशब्दस्य “आ द्वेरः" इत्यत्वे " लुंगस्या० ” इत्यकारलोपे “ आत् " इत्यापि “ आपो ङितां.” इति यायाद्यादेशे “ अनक्" इत्यदादेशेऽनेन डस्पूर्वत्वे "डियन्त्य ०" इत्यकारलोपे, अथात्र यायाधादेशे 15 कृते सर्वादित्वेन तत्पृष्ठभावित्वात् ङसि कृते व्यञ्जनादित्वाभावात्कथमदादेश इत्याहपरत्वादिति । प्रियसर्वाय इति -सर्वशब्दस्य प्रानिपाते प्राप्ते " प्रियः" इत्यनेन प्रियस्य प्रानिपातः, अथ बहुव्रीह्यादेरिति-परेण बहुव्रीह्यादेरिति प्रागभिदधे तदेवाऽनूदितं अत आदेः फलं न निरीक्ष्य, त्वकं पिताऽस्याऽहकं पिताऽस्य द्वको पुत्रावस्य के सब्रह्मचारिणोऽस्येति ।
'टोस्येत्' । १ । ४ । १९॥ एदिति तकारोऽसन्देहार्थः, अन्यथाऽन्तरेण तकारमेरित्युच्यमाने किमित्यकार आदेशो भवत्याहोस्विदिकारः स्यात् , टौसोः परयोः पूर्वे आदेशा इति सन्देहः स्यात् ।
'औता' ।१ । ४ । २०॥ आबन्तस्यैवेति, आवन्तस्येत्येकाऽपि षष्ठी द्विधाऽर्थेवशाद्भिद्यते, सम्बन्धितया स्थानितया इत्याह-आबन्तस्य सम्बन्धिना औता 25 सह आवन्तस्यैव स्थाने इति । बहुखट्वौ-एकदेशेति “ स्थानीवा० " वाऽऽबन्तत्वम् ।
20
१३-४-२५ । २ २-४-२० । ३ २-४-७२ । ४ २-१-४१ । ५ २-१-११३ । ६२-४-१८।७१-४-१७1८२-१-३६।९२-१-११४।१०३-१-१५७।११ ७-४-१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org