________________
रणम् । अित्वरिष् सम्भ्रमेऽतः “ केचिद् ” इति डे । त्वत् अस्यैव धातोः “ संश्चद्वेहत्साक्षादादयः” इति निपातनात् ।।
'नेमार्द्धप्रथमचरमतयायाल्पकतिपयस्य वा'।१।४।१०॥ द्वितयेतितयि रक्षणे च, अयि गतावाभ्यामचि तयायौ शब्दौ स्तः । परं व्याख्यानात्तयायौ 5 प्रत्ययौ । तयोः केवलयोरसम्भवात्तदन्तरस्य कार्य दर्शयति-तयेति व्युत्पत्तिपक्षे तयद्साहचर्यादयस्य तद्धितस्य ग्रहणं, न तु “ गयैहृदय० " इत्यौणादिकस्य । व्यवस्थितविभाषेति-व्यवस्थितं मर्यादानतिक्रान्तं प्रयोगजातं विशेषेण भाषते विभाषेति । अर्धा नाम केचिदिति-नामेत्यव्ययम् । नाम नाम्ना संज्ञया नाम प्रसिद्धार्थो वा ।
केचिद्वर्तन्ते किं नाम अर्धा नाम तदा क्लीबः। 10 'द्वन्द्वे वा'।१।४।११॥ कतरे च दशनाश्चेति कृते द्वन्द्वस्योभयपदप्राधा
न्येऽपि कतरदशना इत्यत्र “ द्वन्द्वे वा” इति न विकल्पः। सर्वादेरित्यानन्तर्यषष्ठीविज्ञानात् । यद्वा सर्वादेरित्यावृत्त्या पञ्चमी व्याख्येया। " पचम्या निर्दिष्टे परस्य" इति न्यायाच्च स्यादेर्व्यवहितत्वान्न भवति । वस्त्रान्तरवसनान्तरा इति-वस्त्रमन्तरं येषां
ते वस्त्रान्तराः । सर्वादित्वादन्तरशब्दस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वाद्वस्त्रस्य 15 पूर्वनिपातः। एवं वसनान्तराः । ततो वस्त्रान्तराश्च वसनान्तराश्चेति कृते समानार्थत्वादे
कशेषः प्राप्नोति । नैवम् , अत्र वसनशब्दो गृहपर्याय इति न समानार्थत्वम् । यद्वा एकोऽन्तरशब्दो व्यवधानार्थी अन्यश्च विशेषार्थी । ननु चाऽन्तरशब्दो बहुव्रीहौ वर्तते न द्वन्द्वे इति कथमदः प्रत्युदाहरणं, न । तदवयवको बहुव्रीहिरपि द्वन्द्व इति ।
'न सर्वादिः' । १ । ४ । १२ ॥ सर्वादिकार्यमिति-सर्वादिकार्य कर्मतामापे20 दानं न प्रामोतीत्यर्थः, प्राप्तावपि परस्मैपदं मते ।
'तृतीयान्तात्पूर्वावरं योगे'।१।४।१३ ॥ अश्ववडवेति पूर्वशब्दस्याऽपरेण स्वेन समाहृतिर्भणिष्यते इति सूत्रत्वात्समाहारः। कर्मधारयो वा पूर्वावयवयोगादिति । योगे सम्बन्धे इति-योग एकार्थीभावोव्यपेक्षा चोभयं गृह्यते । मासपूर्वायेति-ऊनार्थ."
इति समासः। लुप्ताया अपि तृतीयायाः “स्थानीवा.” इति स्थानित्वेन तृतीयान्तत्वम् । 25 " लुप्यम्वृल्लेनत् " इति परिभाषया पूर्वस्य यत्कार्य प्राप्तं लुपि निमित्तभूतायां तदेव
निषिध्यते । अतः "स्थानीवाऽवर्ण विधौ” इति स्थानित्वं ततस्तृतीयान्तत्वं सिद्धम् । ननु यास्यति मासेनेत्यत्र योगग्रहणं विनाऽपि " समर्थः पदविधिः" इति न्यायेन भविष्यति
१५-१-१७१ । २ उणा० ८८२ । ३ उणा० ३७० । ४ ७-४-१०४ । ५ ३-१-६७ । ६७-४-११२ । ७७-४-१०९।८७-४-१२२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org