________________
'सर्वादेः स्मैस्मातौ'।१।४ । ७॥ परमसर्वस्मायिति-स्याद्याक्षिप्तस्य नाम्नः सर्वादिविशेषणाद्विशेषणेन च तदन्तविधेर्भावान सर्वादिरिति द्वन्द्वे निषेधाद्वा 'ग्रहणवता नाम्ना न तदन्तविधिः' इत्यस्याऽनुपस्थानात्तदन्तस्य परमसर्वस्मै इत्युदाहृतम् । केवलस्य व्यपदेशिवद्भावात्तदन्तत्वं दृश्यम् । विश्वस्मायिति-सर्वशब्द. साहचर्याद्विश्वशब्दस्याऽपि समस्तार्थस्य ग्रहणं न तु जगदर्थस्य । स्वार्थिकप्रत्ययेति- 5 इत्थं वदतोऽयमाशयः। स्वार्थिकप्रत्ययोऽपिगणपाठफलमिति । अधराणीति-शब्दरूपा. पेक्षया नपुंसकनिर्देशो नाऽर्थापेक्षया। तेन स्त्रीपुंनपुंसकेषु सर्वेष्वप्यर्थेषु सर्वादित्वमिति । स्वाभिधेयेति-पूर्वादीनां शब्दानां स्वाभिधेयो दिग्देशकालस्वभावोऽर्थस्तमपेक्षते यः स स्वाभिधेयापेक्षः । चोऽवधारणे । दिगादीनां ह्यर्थानां पूर्वादिशब्दाभिधेयानां यत्पूर्वादित्वं तनियमेन कश्चिदवधिमपेक्ष्य सम्पद्यते न त्ववधिनिरपेक्षम् । तथाहि-पूर्वस्य 10 देशस्य यत्पूर्वत्वं तत्परं देशमवधिमपेक्ष्य भवति । परस्याऽपि यत्परत्वं तत्पूर्वदेशमपेक्ष्य भवति । तस्मात् पूर्वादिशब्दवाच्यापेक्षणेऽवश्यं केनचिदवधिना भाव्यम् । तत्र तस्यैवाऽवधेर्यः पूर्वादिशब्दाभिधेयापेक्षोऽवधिभाव एकान्तिकः स नियमो व्यवस्था. परपर्याय । तस्मिन् गम्यमाने पूर्वादीनां शब्दानां स्वाभिधेय एव वर्तमानानां सर्वादिकार्यम्, न तु वाच्ये । यो हि पूर्वादिशब्दाभिधेयादर्थादन्यस्याऽवधिभूतस्य नियमः स 15 कथं पूर्वादिशब्दवाच्यो भविष्यतीति । अतस्तस्मिन्नान्तरीयकतया गम्यमाने पूर्व-परअवर-दक्षिण-उत्तर-अपर-अधर इत्येतानि सप्तशब्दरूपाणि सर्वादीनि भवन्ति । अवधिमति दिगादिलक्षणे वर्तमानानि पूर्वादीनि सर्वादीनि भवन्तीत्युदाहरति-पूर्वस्मै इत्यादि । बहिर्भावेनेति-बहियाँगे धर्मे बहिष्ट्व धर्मिणि बहिःशब्दः । पुरि वर्तते इति-पुरीति शब्दप्रधानो निर्देशः । यदाऽन्तरशब्दस्य पुर्व्यञ्जनान्तो वाच्यो भवति तदा सर्वादि- 20 त्वस्य निषेधः। यदा ईकारान्तोऽकारान्तो वा पुरः पुरी द्रङ्गादयश्च वाच्या भवन्ति तदा सर्वादित्वमस्त्येव । सर्व विभक्त्यादय इति-आदिशब्दाद्यथायोगमेकशेषपूर्वनिपातपुम्भावडद्रिआत्-आयनि-मयट-अक्प्रयोजनानि ज्ञायन्ते इति । न तु सर्वमादीयते गृह्यतेऽभिधेयत्वेनेत्यन्वर्थाश्रयणात् सर्वेषां यानि नामानि सर्वादीनि । संज्ञोपसर्जने च विशेषेऽवतिष्ठते । तथाहि-यदा सर्वशब्दः संज्ञात्वेन नियुज्यते तदा प्रसिद्धप्रवृत्तिनि- 25 मित्तपरित्यागात्स्वरूपमात्रोपकारी प्रवर्तत इति विशेष एवाऽवतिष्ठते । उपसर्जनमपि जहत्स्वार्थमजहत्स्वाातिक्रान्तार्थविशेषणतामापन्नम् अतिसर्वायत्यादावतिक्रान्तार्थवृ. त्तिर्भवति । एवं बहुव्रीहावपि । उभत्पूरणेऽतो "नाम्युपान्त्य०” इति के उभः । तत्पूर्वाद्यातेः “ आतो डो हावामः " इति डे निपातनाट्टित्वे उभयट् । उतरेति-प्रत्ययानुक
१५-१-५४ । २५-१-७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org