________________
(५३) च विशिष्टवर्णसमुदायस्याऽभिधानात् तच् शेते इत्यादिषु एकैकस्य तवर्गशब्दाप्रवृत्ती कथं कार्यित्वमिति ? सत्यम् , समुदायैकदेशस्याऽपि तदात्मकत्वाद् ग्रामो दग्ध इत्यादिवत् समुदायशब्देनाऽभिधानात् दस्याऽपि तवर्गत्वे सति दकाररूपतवर्गस्याऽनेन जकारः; यद्वा यथा ग्रामे वसति गृहे वसतीत्यादौ ग्रामायेकदेशादेरपि प्रामादिशब्दाभिधानम् । न हि देवदत्तादिरेवमभिधीयमानो ग्रामं वा व्याप्य वसति किन्तु तदेक-: देशे। तत्र स एवैकदेशो ग्रामो गृहं चोच्यते तद्वदत्राऽपीत्यदोषः। तच्छादयतीतिछदण संवरणे इत्यस्य छदण् अपवारणे इत्यस्य वा युजादेः स्वार्थणिजन्तस्य रूपम् । तज्झाषयतीति “प्रयोक्तृव्यापारे णिम्" "हन्त्यर्थाश्च" इति णिजन्तस्य वा रूपम् । राज्ञ इति-शसि सो सि च रूपम् । एवं *मज्ज इत्यपि । पूर्वेण शकारेणेति-" ने शात् " इत्यनेन निषेधो वक्ष्यते, परेण षकारेणेति-"षितवर्गस्य "-इत्यनेन । अन्वित्यधि- 10 कारात् अइिडिषतीत्यत्र द्वित्वे कृते पश्चात्टवर्गः, अन्यथा अडिड्डिपतीत्यनिष्टं रूपं स्यात् । एवमट्टिटिषते इत्याद्यपि । एवमुत्तरसूत्रेऽपि “चजः कगम्" इति न भवतीतितच शेते, तचरतीत्यादौ उभयाश्रितत्वाच्चत्वं बहिरङ्ग पदमाश्रितत्वात्कत्वमन्तरङ्गमिति । शकारस्य षत्वमपीति-वृश्चतीत्यादौ “ सस्य शषौ” इति कृतस्य शकारस्य "यजसृज० ” इत्यनेन धुडाश्रितं षत्वं प्रत्ययाभावान्न भवतीत्यर्थः। 15
'सस्य शषौ'। १-३-६१ ॥ ननु वृश्चतीत्यत्र ‘दन्त्यापदिष्टं कार्य तालव्यस्याऽपि भवतीति' भणनात् “ नाम्यन्तस्था०" इत्यनेन षत्वं कथं न भवतीति ? उच्यते-पाठकाले यो दन्त्यसकारस्तस्य कृतत्वाभावादिति ।
'न शात्' । १-३-६२ ।। तवर्गस्येति-असम्भवात्सस्येति न व्याख्यातम् ।
‘पदान्तादृवर्गादनाम्नगरीनवतेः'।१-३-६३ ॥ तवर्गस्येति-उत्तरत्र 20 तवर्गस्येति भणनात्तवर्गस्य सस्य चेति लभ्यतेऽत्र । नामित्यामादेशस्येति-अन्प्रत्ययान्तस्य घनन्तस्य च नमतेरवयव एकः । अत्र य आमादेशो नाम् तस्यैवाऽर्थवचाद्रहणमित्याह-पडनाम-नामशब्दो नकारान्तोऽवयवोऽकारान्त इति ।
'लिलौ' । १-३-६५ ॥ अनुनासिक एव भवतीति-विपरीतनियमस्तु निरनुनासिकस्य सानुनासिक इति, “ हृदयस्य हृल्लास.” इत्यत्र हल्लासेति करणान्न 25 मवति । प्रायिकं चैतज्ज्ञापकं, तेन “संमानानां तेन दीर्घः” इत्यादौ आसन एव भवतीति ।
॥ प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥
१३-४-२०।२१-३-६२। ३१-३-६४ । ४२-१-८६ । ५१-३-६१ । ६२-१-८७ । ७२-३-१५।८३-२-९४ । ९१-२-१॥ * अत्रेदं तत्वम्-टुमस्जोत् शुद्धौ इत्यस्मात् 'उक्षितक्षि' (उणा ...) इत्यनेन अन्प्रत्यये मजन्शदः, तस्य शसिरूपम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org