________________
( ५२ )
रूढेः, तयोरित्यत्रैकाऽपि सप्तम्यथवशाद्विधा भिद्यते; एका वैषयिकेऽधिकरणेऽपरा त्वपश्लैषिके इति । असिद्धं इति - प्रत्ययाश्रितत्वेन बहुस्थान्याश्रितत्वेन च बहिरङ्गता, वर्णमात्राश्रितत्वेन त्वन्तरङ्गता । पदादेशः पदवदिति च वृद्ध्यादौ कृते रेफस्य पदान्तत्वमिति ।
5 ‘ ख्यागि ' । १-३-५४ ॥ ख्याग्येव विसर्गनियमात् ख्यांक प्रथन इत्यस्मिन् जिह्वामूलीयोsपि ।
'शिव्यघोषात् ' । १-३ - ५५ ।। अघोषात् परस्य पदान्ते रेफस्यासम्भवादघोषादिति शिटीत्यस्य विशेषणमित्याह - अघोषात्परे शिटीति ।
"
अरोः सुपि रः ' । १-३-५७ ॥ ननु पयःसु इत्यादिषु “ सो रुः " इति 10 कृतेऽन्तस्थाद्वारेण रेफात्परः षकारः कथं न भवति ? सत्यम्, नित्यत्वात् " रः पदान्ते विसर्गस्तयोः " इति भवति । रुवर्जनाल्लाक्षणिकन्यायो निरनुबन्धन्यायश्चाऽनित्यस्तेन 46 रः कखपफयोः ० " ' इत्यादी लाक्षणिकस्याऽपि भवति ।
'वाहपत्यादयः ' । १-३-५८ ।। निपातनात्पदान्ताधिकारो निवृत्तस्तेनोत्तरसूत्रे न याति तथा च-खूपीरमित्यादि सिद्धम् । गीर्पतिरिति - अत्र क्षीरस्वामिना भ्रातुः 15 पुत्रादित्वात् षत्वमिष्यते । प्रचेता राजन्निति सम्बोधने विशेषज्ञापनाय सम्बोधनादन्यत्राऽप्युदाहार्यम् । तच्च समासे एव अन्यत्र तु अभ्वादिरिति दीर्घत्वे विशेषाभावः । यदुत्पल :- कर्मधारयात्समासान्ते प्रचेताराजः प्रचेतोराजः । शकटोऽप्याह - प्रचेतसो राजा प्रचेताराजः । प्रचेतो राजाऽस्य प्रचेताराजा प्रचेतोराजेति, आकृतिगणार्थत्वाद्बहुवचनस्य । वारि चरति क्वचिदिति डे वार्चः । उषसि बुध्यते "नाम्युपान्त्य० " इति 20 के उषर्बुध इत्यनयोः शत्वमुत्वं च न भवतीति ।
"
'शिट्याद्यस्य द्वितीयो वा' । १-३-५९ ।। अत्राऽऽद्यत्वं प्रतिवर्गपञ्चकं प्रथमापेक्षं च द्वितीयमिति, तेन कचटतपानां खछठथफाः क्रमेण शिटि भवन्ति । क्रमेणोदाहरणानि ।
' तवर्गस्य चवर्गष्टवर्गाभ्यां योगे चटवर्गों ' । १ - ३ - ६० ।। स्थानित्वा25 शङ्केत्यादि - अयमर्थो योगग्रहणं विना सहार्थ तृतीयायां " अवर्णस्येवर्णादिना ० " इत्यादिवत् श्रवर्गादेरपि स्थानित्वाशङ्का । परदिग्योगपञ्चम्यां तु " पर्श्वम्या निर्दिष्टे परस्य ० इति न्यायात्परस्यैव तवर्गस्य स्यान्न पूर्वस्येति योगग्रहणम् । ननु तवर्गस्य कार्यित्वात्तेन
"
१२-१-७२ । २५-१-५४ । ३१-२६ । ४७-४-१०४ ।
Jain Education International
For Private & Personal Use Only
* www.jainelibrary.org