________________
(५०) हो, वृहौत उद्यमे इति धातू " वेटोपत" इतीनिषेधः! लेढा इति-नन्वत्र परत्वाद्गुणो भविष्यति किमन्वित्यधिकारेणेति ? सत्यम् , ढलोपस्याऽल्पाश्रितत्वेनाऽन्तरङ्गत्वात्प्रथम ढलोपो दीर्घत्वं च प्राप्नोति । ननु ढस्याऽसत्त्वात्सर्वमप्यसत् ततो गुणो भविष्यति ?
सत्यम् , ' तथाप्यसिद्धं बहिरङ्गमन्तरङ्ग' इति दीर्घत्वं स्यात् , 'वा! विधिः' इति 5 न्यायेनाऽन्तरङ्गं ढत्वं ततस्तस्मिन्नभिधेये गुणोऽसिद्धो यतो गुणोऽवाणों विधिरिति, कार्यासत्वपक्षे इदमुक्तं, शास्त्रासत्त्वपक्षे तु गुणे कृते ढत्वं भवति ।
'उदास्थास्तम्भः सः'।१-३-४४ ॥ ननु उदस्थादित्यत्र सकारलोपः कस्मानभवति ? न च वाच्यमडागमेन व्यवधानान्न भविष्यति, यतोऽङ्गिनोऽङ्गं
व्यवधायकं न भवति, सत्यम् , आवृत्त्याउद इति पदं स्थास्तम्भः सकारस्य च 10 सम्बन्धनीयं, उदस्थात् उदस्तम्भदित्यनयोः सिद्ध्यर्थम् । उदस्थादित्यत्राऽडागमात् पूर्व
मन्वित्यधिकारान्न भवति, अडागमे च सति पञ्चम्या निर्दिष्टे परस्य तच्चाऽनन्तरस्यैव न व्यवहितस्येति न भवति । उत्स्थान-इत्यत्र स्थानस्य विशेषणं उत् , न तु तिष्ठतेरिति ।
'तदः सेः स्वरे पादार्था'। १-३-४५॥ तद इायनेन तदादेशस्य सस्य ग्रहणमन्यथा व्यञ्जनात्सिलोपः सिद्ध एव । अनुकरणत्वात्तद इत्यत्र त्यदाद्यत्वाभाव: 15 शब्दानुकरणे हि प्रकृतिवदनुकरणम्' इति न्यायः प्रवर्तते । शब्दानुकरणे तु नेति ।
कथमिदमिति चेत् ? 'तदः सेः स्वरे' इति “ परिव्यवास्क्रिय " इति सूत्रसूत्रणात् । पादार्थेयं पादार्थो यस्या इति वा पादार्था ।।
'एतदश्च व्यञ्जनेऽनग्नसमासे'।१-३-४६ ॥ प्रकृतेः परः श्रूयमाणश्रकारः प्रकृत्यन्तरसद्वितीयतां गमयन् पूर्वसूत्रश्रुतप्रकृत्यैव सद्वितीयतां गमयति । 20 नञः समासो नसमासस्ततो द्वन्द्वगर्भो नञ्तत्पुरुषः । नञ्समासे च सति न भवतीति
अनेन नञः क्रियासम्बन्धं दर्शयन अनग्नसमास इति प्रसज्यप्रतिषेधोऽयभिति दर्श. यति । पर्युदासे हि सति 'नयुक्तं तस्सहशे' इति न्यायेन नसमासादन्यत्राऽपि समास एव वर्तमानाभ्यामेततच्छब्दाभ्यां सिलोपः स्यादिति । अनग्नसमासे इति
प्रतिषेधात् परमैष करोतीत्यादौ तदन्तादपि सेलक् । धनं लब्धा “ धैनगणाल्लब्धरि " 25 इति ये धन्यः-अनुबन्धग्रहणादिति-अयमर्थः । सेरिति इदनुबन्धग्रहणादन्यानुबन्धसमु.
दायस्य लोपाभावः, एतेषु चरतीत्यादौ । अथाऽत्र परत्वादेत्वे षत्वे च कृते सकारस्याऽभावाल्लोपो न भविष्यति ? सत्यम् , विशेषविहितत्वादेत्वषत्वाभ्यां पूर्वमेव लोपः स्यादिति । किञ्च एतत् स्कुम्नातीत्यादावपि स्यात् ।
१४-४-६२ । २३-३-२७ । ३७-१-९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org