SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ( ८) डउविधानस्य पुंसि विसर्गान्तस्य चरितार्थत्वानपुंसके तितउ इत्यत्र विरामस्थस्योकारस्य द्वित्वं स्यात् , प्रथमत्वादिकमिति पत्थ्यदनमित्यादिषु । .. 'अश्वर्गस्यान्तस्थातः' । १-३-३३ ।। अन्तस्थात इत्यत्राऽऽद्यादित्वात्तस् । 'ततोऽस्याः' । १-३-३४ || दध्य्यत्रेत्यादौ । 'असिद्धं बहिरङ्गमिति' 5 न्यायादन्तरङ्गे द्वित्वे कर्तव्ये बहिरङ्गो याद्यादेशोऽसिद्धः कस्मान्न भवति ? न चाऽ स्याऽसिद्धत्वे सूत्रमिदमनर्थकं भवतीति वाच्यं, ध्यानमित्यादावनादेशरूपे यादौ तस्य सावकाशत्वादिति ? उच्यते, “न सन्धिङीयक्कि० " इत्यत्र द्वित्वस्य सन्धिविधित्वेन स्थानिवद्भावप्रतिषेधे सिद्धे द्विग्रहणमसिद्धं बहिरङ्गमन्तरङ्ग इति न्यायस्य बाधनार्थ द्वित्वमुपपद्यते । तथात्रेत्यस्मिन् रस्य न द्वित्वमर्हस्वरस्येत्यधिकारात्, लस्य तु 10 द्वित्वे कल्लाम्यतीति द्रष्टव्यं । __ 'शिटः प्रथमद्वितीयस्य' । १-३-३५ ।। ष्ठलस्थाने इत्यतः कर्तरि " वा ज्वला० " इति णे वृद्धौ " जोतेरयान्त० " इति ड्यां स्थाली, स्थालयतीति वा " स्वरेभ्य इ:" स्थालिः, अस्यत इति ध्यणि " शिक्यास्य." इति वाऽऽस्य, त्वञ्च्छात्र इति त्वम्छात्र इति स्थिते " तो मुंमो० " इत्यनुनासिको अकारस्ततश्छस्य द्वित्वे 15 " अघोषे प्रथमो० " इति छस्य चः। __'ततः शिटः' । १-३-३६ ॥ ताभ्यां ततः, तच्छब्दस्याऽनन्तरपूर्ववस्तुपरामर्शित्वेन प्रथमद्वितीययोरनुकर्ष इति, शियाद्यस्य० " इति पस्य फकारे कृते द्वितीयादपि सस्य द्वित्वे अफ्स्सरा इति दृश्यं । नराः बुवन्तः सीदन्त्यस्यामिति पृषोदरादित्यात् वृसी, कश्यते इति णिगन्तस्य, एवं कर्ण्यत इत्यपि । 20 पुत्रस्यादिन् पुत्रादिन्याक्रोशे' । १-३-३८ ॥ नकारान्तताभिव्यक्त्य र्थमादिनिति सूत्रांशे लक्षणप्राप्तोऽपि नलोपो न कृतः, आदिन् पुत्रादिन्नुपादानेऽपि " नामग्रहण० " इति न्यायात् स्त्रियामुदाहृतं, तत्रैव प्रायेणाऽऽक्रोशसम्भवात् , स्त्रीवत्पुंसोऽपि पुत्रादनेनाऽऽक्रोशे तत्रापि प्रतिषेधो भवत्येव, पुत्रादी भवेति, अभीक्ष्णं पुत्रानत्सीति " व्रताभीक्ष्ण्ये ” इति णिन् पुत्रादिनी शिशुमारीति, अध्यारोपेण हि 25 निन्दाकोशी, तत्त्वाख्याने तु तदसम्भव इति प्रतिषेधाभावाद् “ अदीर्घाद्" इति द्वित्वं भवत्येव, नागीति “ जोतेरयान्त.” इति डीः । १७-४-१११।२५-१-६२।३२-४-५४ । ४ उणा०६०६। ५ उणा० ३६४ । ६१-३-१४ । ७१-३-५०।८१-३-५९ । ९५-१-१५७ । १०१-३-३२। ११ २-४-५४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy