________________
(४७) प्लुतोऽभिधीयत इत्याह दीर्घस्थानादिति, ननु किमर्थमिदं यतो दीर्घमाश्रित्य “अनाङ्माङ० " इत्यनेनैव द्वित्वं वा भविष्यति ?, सत्यं, इदमेव ज्ञापकं — दीर्घापदिष्टं नप्लुतस्येति'
'स्वरेभ्यः' ।१-३-३० ॥ पदान्त इति निवृत्तमिति । " गच्छति पथिदूते” इत्यत्र गच्छतीति निर्देशाच्च ।
दिर्हस्वरस्यानु नवा' । १-३-३१ ।। अर्यत इति “ भीणशलि. " इति के, “ चजः कगम्” इति कत्वं, अर्च्यत इति पनि न्यडक्कादित्वात्कत्वेऽनेन द्वित्वे वा औणादिके प्रथममेव कस्य द्विरूपत्वान्नाऽनेन द्वित्वं, पद्मद इति-हादते इत्यच् पृषोदरादित्वाद्हस्वः, अत्र द्वित्वे कृतेऽपि ""रोरेलुगू०" इत्यनेन रलोपे सति न कश्चिद्विनश्यति ? सत्यं, यद्यत्र र वर्जनं न स्यात्तदोत्तरसूत्रेऽपि वर्जनाभावेऽर्ह 10 इत्यत्रोत्तरेण द्वित्वे “ रोरेलुंग्” इति लुकि आई इत्यनिष्टं रूपं स्यादिति । ननु कर इत्यत्र द्वित्वे कृतेऽपि "लुगस्या०" इत्यादिनाऽस्य लुग्भविष्यति किं स्वरवर्जनेन ? सत्यं चारु दारु वारीत्यादौ चारू दारू वारी इत्याद्यनिष्टं भवेदिति स्वरवर्जन, अत्राऽन्वित्यस्याऽभावे सत्यन्तरङ्गत्वाद् द्वित्वेकृते पश्चात्परोक्षानिमित्तत्वेन बहिरङ्ग द्विवचनं स्यात्ततश्च प्रोणुन्नावेत्यनिष्टरूपापत्तिः, ननु द्वित्वं कृतमपि निमित्ताभावे इति निवर्त्यति 15 किमनुग्रहणेन ? सत्यं, अनुग्रहणादेवाऽयं न्यायोऽनित्य इति ।
__ 'अदीर्घाद्विरामैकव्यञ्जने' । १-३-३२ ॥ अदीर्घादिति पर्युदासादनुवृत्तस्य स्वरस्य विशेषणमित्याह अदीर्घात्स्वरादिति, अथ त्वक् इत्यत्र प्रथमककारस्य “संयोगस्याऽऽदौ०" इति लुक्कस्मान्न भवति ? न च वाच्यमयं द्वित्वादेशोऽनर्थक इति, अन्यत्र द्वित्वश्रुतेश्चरितार्थत्वादिति ? सत्य, अर्हस्वरस्येति ोपादानाद् व्यक्तिपदार्थ आश्रीयते, 20 तत्र च ककारविषयस्य द्वित्वस्याऽऽनर्थक्यं मा भूदिति न भवति, ननु " लिलौ " इति सूत्रे द्विवचनेनेदं ज्ञापितं, यथा सानुनासिकस्यापि निरनुनासिक एवाऽऽदेश इति, तत्कथं सम्यतः इत्यत्र सानुनासिको यकार इति ? सत्यं, स एव सानुनासिको यकारो द्विरूपो भवति न त्वयं भिन्न आदेश क्रियत इति सानुनासिक एव भवतीति, एकयाऽपि चार्धकलया द्वावपि यकारौ सानुनासिको ज्ञायते, सानुनासिकयकार- 25 स्यैव द्वित्वापन्नत्वादिति, गाव एनं त्रासीरनिति “ तिकृतौ नाम्नि" इति क्तः, वियत इति "वर्योपसर्या० " इति यः, अत्र द्वित्वे कृते रलोपे च वार्ये स्यात् ,
१ १-३-२८ । २ ६-३-२०३ । ३ उणा० २१ । ४२-१-८६ । ५ १-३-४१ । ६२-१-११३ । ७२-१-८८ । ८१-३-६५। ९५-१-७१ । १० ५--१-३२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org