________________
(४५) सत्यामसन्धिरिति प्रतिषेधो युक्तो लुक् तु अभावरूपत्वात्सन्धिरूप एव न भवतीति कथं निषिध्यते स चाऽसन्धिरित्याह-सन्धिरित्यादि, अत्र सन्धिशब्देन सन्धिनिमित्तस्योपचारादभिधानं । धर्म चरतीति “धर्माधर्माच्चरति” इत्यनेनेकणि धार्मिकाः । भगवदघवतामिति-भज्यन्ते सेव्यन्ते स्वेन रूपेण स्थाप्यन्ते पदार्था अनेनेति " गोरसंचर० " इति घे भगं, तदस्याऽस्ति मतो भगवत् इतिरूपं, अघण् पापकरणेऽतोलि 5 मतौ अघवत् , अनवहितस्याऽन्यत्र व्यासक्तस्याऽभिमुखीकरणं सम्बोधनमामन्त्रणमित्यर्थः । असन्धिरित्युत्तरार्थमिति । ननु " स्वरे वा” इत्यत्रैवाऽसन्धिस्वरे वेत्येवमसन्धिग्रहणं क्रियता, नैवं, लुक्संनियोगशिष्टत्वज्ञापनार्थत्वादत्रोपादानस्य, तेन यत्राऽनेनाधिकारेण लुछ तत्रैवाऽसन्धिः, ततश्चात्राऽऽगच्छतीत्यादौ सन्धिप्रतिषेधो न भवति । किश्चैवं कृते सन्देहः स्यात् , स्वरे निमित्तेऽसन्धिर्वा भवतीति, ततो दण्ड 10 अग्रमित्यनिष्टं रूपं स्यादिति, तथाऽसन्धिरित्यस्य संनियोगशिष्टत्वे यत्र लुग्निवृत्तिस्तत्र तत्सम्बद्धोऽसन्धिरित्यपि निवर्तत इति । ___ 'व्योः'।१-३-२३॥ वृक्षवित्यत्र क्विपि सत्यूट् स्यादिति विचि सिद्धमित्युक्तं न च " स्वरस्य० " इति णि लुकः स्थानित्वं " ने सन्धि० " इत्युपस्थानात् , तर्हि " वोः० " इति कथं वस्य न लुक् ? सत्यं, तदा स्थानित्वात् , अव्ययतीति विच 15 किव्वा, विचि तावद्यस्य न लुक् " स्वरस्य० " इति णिजः स्थानित्वात् , किपि तु यद्यपि “नै सन्धि०" इति णिजः स्थानित्वं न भवति तथापि न यस्य लुक, "इसासः" इत्यनेन व्यञ्जनद्वारा सिद्धे काविति सूत्रं विपि क्वचिद् व्यञ्जनकार्यमनित्यमिति ज्ञापनार्थम् । ततो यलुग् न भवतीति, यद्वा लुगिति संज्ञापूर्वको विधिरनित्य इति,, ननु वृक्षव् करोतीत्यत्र पदान्तत्वं नाऽस्ति णिलोपस्य स्थानित्वात् ततो व्यङ्गविकल- 20 त्वं व्यावृत्तरिति इति । ___ 'स्वरे वा' । १-३-२४ ॥ कयास्ते तयाहुरित्यादिषु स्यादिविधौ “ सोरुः " इति रोरसत्वाद् 'असिद्धं बहिरङ्गमन्तरङ्गे' इति न्यायाच्च, “ अत आः स्यादौ० " इति न दीर्घः । ___ 'अस्पष्टाववर्णात्वनुनि वा' । १-३-२५ ॥ स्पशेर्णिजन्तात् ते " णौ 25 दान्त० " इति निपातनात्स्पष्टः।
१६-४-४९ । २ ५-३-१३१ । ३ १-३-२४ । ४ ७-४-११०। ५ ७-४-१११ । ६४-४-१२१ । ७४-४-११८ । ८२-१-७२ । ९१-४-१ । १. ४-४-७४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org