________________
(४४) 'अनः सः त्सोऽश्चः' । १-३-१८ ।। षट् सीदन्ति, मतान्तरेण षड् सीदन्ति, इत्यत्र " ततः शिट" इत्यनेन वा द्वित्वे चातूरूप्यं, षट्र सीदन्ति, " अंदीर्घाद्" इति टस्य " ततः शिट” इति सस्य च वा द्वित्वे त्रैरूप्यमिति सप्त रूपाणि भवन्ति । पट्त सीदन्तीति " पदान्ताट्टवर्गाद्” इति निषेधात्तवर्गस्य न टत्वं, पडिति प्रयोगस्थो 5 डकारः सूत्रेऽनुकृतस्तत एव " अघोषे प्रथमोऽशिट" इति टत्वं न भवति, इत्याह
डकारनिर्देशादिति । भवान्त्साधुरिति-अथाऽत्र नकारस्य " नोऽप्रेशान०" इत्यनुस्वारानुनासिकपूर्वः सकारः कस्मान्न भवतीति ? उच्यते, अधुट्पर इति वचनात् , अत्र हि धुट्परस्तकार इति । षद् श्योतन्तीत्यत्र “ सस्यं शषौ” इत्यत्रान्वित्यधि
कारे वर्तमाने श्चवर्जनाभावे दन्त्यसकारस्य सः स्यादिति, ननु तथुपदेशावस्थाया. 10 मपि तालव्यः पठनीयः किं दन्त्यपाठेनेति ? सत्यं, दन्त्यं पठन्नेवं ज्ञापयति 'दन्त्या
पदिष्टं कार्य तालव्यस्याऽपि भवति' परं दन्त्यस्थाननिष्पन्नस्य न सर्वस्य, तेन भवान् शेते इत्यादौ त्सो न भवति, ननु मधुगित्यत्र “ स्वरस्य परे० ” इति णिलोपरूपस्य स्वरादेशस्य स्थानित्वात् शलोपो न प्राप्नोति, न च वाच्यं “ न सन्धि०" इत्युप
तिष्ठत इति, अस्क्लुकीति वचनात् न, अस्क्लुकीत्यत्र ननिर्देशेन ‘ना निर्दिष्ट15 मनित्यमिति' न्यायात्स्थानित्वाभाव इति ।
__'न शिञ्च'।१-३-१९ ॥ भवाञ्च छूर इत्यादौ भवाञ्च शूर इत्यत्र " ततः शिट" इति वा द्वित्वे चातूरूप्यं, कुर्वञ्च छेते इत्यादौ कुर्वञ् शेते इत्यत्र । “दीर्घाद्” इति अस्य वा द्वित्वे कुर्वञ्च शेत इत्यत्र च “ ततः शिट” इति द्वित्वे पश्च रूपाणि ।।
'अतोऽति रोरुः ।।१-३-२० ॥ वेति निवृत्तं, कार्या निमित्तं कार्यमित्येष 20 हि निर्देशक्रमः । अत्र तु कार्यिणः पूर्वनिमित्तोपादानेन निर्देशकमातिक्रमं कुर्वन्नधि
कारातिक्रमं सूचयति । तथाऽतोऽतीति निर्देशात्सन्निपातलक्षणन्यायो नोपतिष्ठते । ननु तरावयनं तर्पयनमित्यत्र रुशब्दस्यैव ग्रहणं कस्मान्न विज्ञायते किमित्युदित एवेति ? सत्यं, “ अतोऽति रोरु" रित्यत एव ज्ञापकात, किञ्चैतत्सूत्रोपात्तस्यैव रोरुत्तरत्राऽनुवृत्तिस्तत्र च भोभगोऽघोभ्यः परस्य पदान्तस्थस्य रोरन्यस्याऽसम्भवात्सानु 25 बन्धस्यैव ग्रहणं भवतीति । सुश्रोत ३ यत्र न्वसीति । अत इति तपरनिर्देशेन स्वरूपग्रहणात्प्लुते सति न भवति, परत्वादन्तरङ्गाचोकारात्पूर्वमेव प्लुतः।
'अवर्णभोभगोऽघोलुंगसन्धिः ' ।१-३-२२ ॥ ननु सन्धिरूपतायां
१ १-३-३६ । २ १-३-३२ । ३ १-३-६३ । ४ १-३-५० । ५ १-३-८ । ६१-३-६१।७७-४-११० । ८७-४-१११ । ९१-३-२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org