________________
(४२) भूषायामिति सूत्रकरणेन भूषायामिति किं ? इति व्यावृत्तिः । संचस्कारेति न चाऽत्र सम्स्कृ इति कृते प्रत्ययोत्पत्तेः प्रागेवाऽऽदेशप्रसङ्ग इति वाच्यं, यतः परत्वान्नित्यत्वाद्धातुमात्राश्रयणेऽन्तरङ्गत्वाच्च प्रथममेव प्रत्ययस्ततस्तदाश्रितं कार्य द्वित्वं तेन च सटो व्यवधानमिति ननु “ अघोषे शिटः ” इति लुप्तस्य सस्य " स्थानी वा०" इति स्था5 नित्वे सति कथं न भवति ? न च वाच्यमवर्णविधौ स्थानित्वमिति । स्सटीति वर्ण
समुदायाश्रयणेन वर्णविधित्वाभावात् । न स्सडिति, सकारादिः सट् स्सडिति कृते वर्णविधित्वमिति । ननु ' निमित्ताभाव ' इति न्यायेन द्वित्वे न समो व्यवधानात् कृगः स्सडागमो न प्राप्नोति ? नैवं, 'स्वाङ्गमव्यवधानक'मिति न्यायाद् द्वित्वरूपस्य
खाङ्गस्य कृगं प्रति व्यवधायकत्वायोगादिति । 10 'लुक्'।१-३-१३ ।। अनेन समः परस्य कृगः स्सटि समो मकारलोपे रूप
मेकं, केचिन्मतेन मकारलोपेऽनुनासिकेऽप्येकं पूर्वेण समो मस्य सत्वे सत्यनुस्वारानुनासिकयोर्द्व रूपे, तथा सत्वेऽनुस्वारे च कृते सति कस्याऽऽदिरित्याश्रयणेनाऽनुस्वारस्य व्यञ्जनत्वे तस्मात्परस्य सस्य लोपे सानुस्वारमेकसकारं चैकं रूपमिति पञ्च रूपाणि ।
_ 'तो मुमो व्यञ्जने स्वौ'।१-३-१४ ॥ ननु तौग्रहणं किमर्थं स्वाविति विशे15 षणस्य विशेष्यसापेक्षत्वात्समानाधिकरणावधिकारानुविद्धावनुस्वारानुनासिकावेवाऽनुवय॑तः १ सत्यं, तौग्रहणमवधारणार्थ, अन्यथाऽनन्तरोक्ता लुगनुवर्तेत, पूर्वस्येति च ततश्च मुमोलुंग्भवति पूर्वस्य चाऽनुस्वारः। चङ्गम्यत इत्यादौ निमित्तभूतवर्णापेक्षया पूर्वस्याऽकारादेः स्थानेऽनुनासिकश्चेति सूत्रार्थेऽनिष्टं रूपं चङ्गम्यते इत्यापद्यते, तौग्रहणात्तु
तावेवेति नियमितावनुस्वारानुनासिकावनुवर्तेते, तच्छब्दस्य पूर्ववस्तुपरामर्शित्वेऽपि 20 सकारलुकोः सत्वासम्भवादनुनासिकस्य च सम्भवात् तस्यैव परामर्शः, द्विवचनोपादा
नात्तत्प्रतिबद्धानुस्वारस्य चेत्याह-तावनुस्वारेति । लाक्षणिकत्वादिति लक्षणं लिङ्गं तत आगतं अध्यात्मादित्वादिकणि लाक्षणिकोऽनुमेय उच्यते, लाक्षणिकत्वादेव " नाम्नोनोऽन० " इति नलोपोऽपि न । त्वं षण्ढ इति वन पण इति पणः सनतीति
वाक्ये “ शमिषणिभ्यां ढः" इति ढे बाहुलकत्वात् षे षण्डः । 25 'मनयवलपरे हे'। १-३-१५॥ मनयवलाः परे यस्मादिति बहुव्रीहिः, न तु
तत्पुरुषः परग्रहणात् । यद्येवं मनयवल इति कस्मानोक्तं ? सप्तम्येव हि परशब्दार्थ प्रतिपादयिष्यति मकरादौ परे यो हकारस्तस्मिन्निति । नैवम् विपर्ययोऽपि विज्ञायेत हकारपरे मकारादाविति, ततश्च किं महयति, किं नाति, किं याहि, कि वहसि, किं
१४-१-४५ । २ ७-४-१०९ । ३ २-१-९१ । ४ उणा० १७९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org