________________
'प्रथमादधुटि श छः '१।३। ४ । वाक्छूर इत्यादि, शूर वीरणि इति शूरयत इत्यचि इंदुं दुं श्रृं खं इति शवतीति " चिजिशंसमि० " इति रे दीर्घत्वे च शूरः, श्लिष्यतीति "भ्रूणतृणगुण०" इति निपातनात् श्लक्षः, श्विताऽवणे श्वेतत इति लिहायचि श्वेतं, श्मनि मुखैकदेशे शेते " इमनः शीडोडित्" इति डिते श्मश्रु कूर्च, श्यैडो “ विलिमिली. "ति मे श्यामा अप्रसूताः स्त्रियः श्यामवर्णा वा । वाक्टर 5 इत्यादिप्रयोगेषु तृतीयस्य प्रथमे कृते तादृक्षात्प्रथमात् शकारस्याऽनेन छः प्रवर्तते, ततस्तृतीयाधिकारेणैव सिध्यति न च परत्वाद् “ अघोष प्रेथमोऽशिटः" इति प्रागेव प्रथमो भविष्यति ततस्तृतीयाभावात्कथं शस्य छादेशो भविष्यतीति वाच्यं, यतस्तत्राऽन्वित्यधिकारान प्रागेव प्रथमत्वमिति, सत्यं, तृतीयाद्विधीयमाने छे तृतीयस्य प्रथमत्वं पश्चान्न प्राप्नोति विधानसामर्थ्यात् , यथा “ः सः त्सोऽश्चः" इत्यत्र सूत्रे 10 डकारात्परे त्से कृते टत्वं न भवति षड्त्सीदन्तीत्यत्र । किश्च प्राङ्क छेते सुगण्ट्र छेते इत्यादौ तृतीयाभावाच्छत्वं न स्यादिति विध्यर्थमिति । अधुटीति पर्युदासात्स्वरान्तस्थानुनासिकपरस्य शस्य छो भवतीति । वाक्टर इत्यादौ "ऊनार्थपूर्वाद्यैः" इति सः ।
'रः कखपफयोः कापौ' १।३। ५। ननु 'निरनुबन्धग्रहणे न सानुबन्धस्येति न्यायात् करोतीत्यादौ सानुबन्धस्य रेफस्याऽऽदेशो न प्राप्नोति । सत्यं, 15 " अरोः सुपि०" इत्यत्र रुवर्जनाद्रोरप्यादेशः । तद्धि " रः पैदान्त०” इति सूत्रानिरनुबन्धे रेफेऽनुवर्तमाने स्वयमेव सिद्धं सत् ज्ञापयति 'निरनुबन्धग्रहणे सामान्यग्रहण'मित्यपि न्यायोऽस्तीति ।
'शषसे शषसे वा'१।३।६। कः षण्ड इति वन षण संभक्ताविति षणधातोः सन्यत इति वाक्ये " पश्चमाहुः" इति डे बाहुलकत्वाच सत्त्वाभावे पण्डो 20 वृक्षसमूहः । ननु शषसे सो वेत्येवं सकार एव विधीयतां तस्य च “ सस्य शषौ" इति कृते करशेते कष्षण्ड इत्यादौ शकारपकारौ सेत्स्यतः । एवमुत्तरत्राऽपि कश्वरति कष्टीकते भवांश्चरति भवांष्टीकते इत्यादौ शषौ सेत्स्यत इत्युत्तरार्थमित्यपि न वक्तव्यं, तथा कः शेत इत्यादौ " धुटैस्तृतीय " इत्यस्मिन् कर्तव्ये रुत्वस्य, अन्तः शेत इत्यादी त्वसिद्धं बहिरङ्गमिति न्यायेन शत्वस्याऽसिद्धत्वे तृतीयत्वमपि न प्रवर्त्यति 25 तरिक शषयोः पृथग्विधानेनेति ? सत्यं, असिद्धं बहिरङ्गमिति न्यायस्यानित्यत्वज्ञा
१ उणा० ३९२ । २ उणा० १८६ । ३ उणा० ८१०। ४ उणा० ३४० ।५१-३-५० । ६ १-३-१८।७३-१-६७।८-१-३-५७ ।९१-३-५३ । १० उणा० १६८।११ १-३-६१। १२२-१-७६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org