________________
(३७) एव निवृत्तिं कुर्यात् , तसादसमिति मुख्यार्थबाधायां गुणकल्पना प्रधानकल्पनाऽsश्रीयत इत्याह-असन्नभूतवदिति-असिद्धवदकृतवदित्यर्थः । ततश्च स्थान्याश्रयं कार्य सिद्धं भवति, ननु असन्निति विनाऽपि प्रथममेव द्वित्वे क्रुङ्खास्त इति सेत्स्यति तत्किमनेनाऽत्र दर्शितेन ? सत्यं, अत्र परत्वात् " हूस्वाद् उणनो द्वे" इत्यनेन जायमानं द्वित्वं बाधित्वा नित्यत्वादनेन वकारस्तस्य चाऽसत्त्वाद्वित्वं । किमुत आवपनमिति- 5 आसमन्तद्धातूनामनेकार्थत्वेनोप्यते क्षिप्यति वस्त्वस्मिन्निति आवपनं-सर्व भाजनं । तवस्य मतमिति-यत्र " ततोऽस्याः " इत्यस्याप्राप्तिस्तत्र “ अदीर्घाद्" इति प्राप्तमपि द्वित्वं न प्रवर्तते नित्यत्वादिकारणेभ्यः, असचावित्वमिति, " अदीर्घाद्” इति " ततोऽस्याः” इति द्वित्वादौ कर्तव्येऽसन्नेव यतोऽसनित्यत्राऽपि वा योजनीयः, वकारादेशोऽपि वाऽसन् भवतीत्यर्थः । ततः पक्षेऽसत्त्वविधानात् कार्यविशेष प्रति सत्यमेव । 10
अइउवर्णस्यान्तेऽनुनासिकोऽनीनादेः१-२-४१॥ विरामत्वाचेति, चकारस्यैवकारार्थत्वेन विरामत्वादेव न सन्धिः सन्धिरभाव इत्यर्थः॥ वृक्ष इति, "कादियअनम् ” इति सूत्रे कस्याऽऽदिरिति तत्पुरुषसमासे विसर्गस्यापि व्यञ्जनत्वे " नाम सिद्" इति वृक्षाकारस्य पदत्वादन्त इति व्यावृत्तेन व्यङ्गविकलतेति " पूर्वभवदार०" इत्यादिना विष्णुः पृथिवीपतिरभिप्रायेण ।
॥ इति अवचूर्णिकायां समाप्तोऽयं द्वितीयः पादः ॥ 'तृतीयस्य पश्चमे'। १-३-१ ॥ " सौ नवेतौ” इत्यतो नवेति, "एदोतः” इत्यतः पदान्त इति, “ अइउवर्णस्य० " इत्यतोऽनुनासिक इत्यधिकारत्रयं पादान्तरागतमप्यनुवर्तते, 'अपेक्षातोऽधिकार' इति न्यायात् , प्रथमद्वितीयतृतीयादित्वं वर्गस्यैव धर्म इत्याह-वर्गतृतीयस्येति, स्थान्यासन्न इति यद्वर्गसत्कस्तृतीयस्तद्वर्गसत्क 20 एवाऽनुनासिक इत्यर्थः । वामधुरा वक्तीत्येवंशीलेति, उच्यत इति बाहुलकत्वाद्वा " दिद्युद्" इत्यादिनिपातनाद्वाक्, मधु माधुर्यमत्राऽस्तीति " मध्वादिभ्यो रः" इति रे मधुरा । षण् नया इति, नीयते परस्य बुद्धिमर्थ एभिरिति “ पुन्नाम्नि घ" इति घे नयाः, षडिति जसन्तः, षण्णां नया इति षष्ठीममासो वा षट्संख्या नयाः षण्णया इति मयूरव्यंसकादित्वात्समासः, कर्मधारयस्तु संख्यासमाहारे चेत्यत्र नियमसद्भावान 25 भवति, एवमन्यत्रापि संख्यायाः समासो द्रष्टव्यः, तन्नयनमिति-नयतेर्भावे करणाधिकरणयोर्वाऽनटि नयनं, षष्ठी वा समासो व्यस्तं वा पदद्वयं भावानटि तृतीयासमासो वा, अत्र दस्याऽसत्त्वे तत्स्थानस्य नस्याऽप्यसत्त्वानलोपो न भवति । ककुम्मण्डल
15
११-३-२७ । २१-३-३४ । ३ १-३-३२ । ४१-१-१० । ५ १-१-२१ । ६ १-२-३८।७१-२-२७।८.१-२-४१।९५-२-८३ । १०७-२-२६।११५-३-१३०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org