________________
10
( ३५ ) तदनु अयादेशस्य च निषेधस्ते एव च परस्वरस्य प्रत्यासन्ने एत्वं तु परस्वरमन्तरेणाऽपि भवतीति न तत्स्वरनिमित्तं नतु प्रत्यासन्नं चेति प्रत्यासत्तिन्यायात्तन्निमित्तकस्यैव कार्यस्य निषेधो नाऽतनिमित्तकस्येति । केचित्तु इति-जयादित्यप्रभृतयः । वाशब्देनेत्यादि-भाष्यकारवार्तिककारयोरसंमतत्वाचेति । अन्ये विति-उत्पलादयः । द्यौश्च पृथिवी चेति पृषोदरादित्वात् रोदसि इदन्त आदेशस्ततो द्विवचनम् ।
'अदो मुमी'।१-२-३५ ।। अदसो मुमी इति विग्रहो नत्वमुष्य मुमी इति विग्रहः प्राप्नोति, कथमदस इति ? सत्यं, अविवक्षितार्थस्य प्रायोगिकस्याऽदस् शब्दस्याऽत्र प्रयोगः, तत्र तु सार्थको गृह्यते, इत्यदः शब्दसम्बन्धिकार्याभावेऽदस इति भवति । इखत्वाभावे तु स्वैरादिसूत्रवत्सर्व द्रष्टव्यं, सूत्रत्वाद्वा समाहारेऽपि न इखः। अम्यत्रेति-अम् गतावित्यतो भावे घजि अमः सोऽस्याऽस्ति इन् ।
'चादिः स्वरोऽनाङ्'।१-२-३६ ॥ अनाङित्यत्र पर्युदासाश्रयणेन सदृशग्रहणाचादिना खरस्य विशेषणात्तदन्तत्वासम्भवात्सामानाधिकरण्यालाभात् केवलस्य ग्रहणमित्याह-आवर्जितश्चादिरव्ययसंज्ञः स्वर इति । वृत्तौ तु द्वितीयमुत्तरम् । अ अपेहि इत्यादौ अ इ ए ओ शब्दा अहोशब्दार्थे, ई-खेदे, उ-अक्षमायां, ऊ इति अन्यायद्योतने, आ एवं किल मन्यसे इति आकारो वाक्यालङ्कारं वाक्यार्थविपर्ययं वा द्योतयति, 15 ऊष्यते-पीडयते बीजादिवस्त्वनेनेति "व्यञ्जनाद्घत्रि" ऊषः, सोऽस्मिन्नस्ति " मध्वादिभ्यो र" इति रे ऊपरः, शृणोतेर्णिग्यलि श्राव ओः श्राव ओश्रावस्तं करोति णिचि पूर्ववत् , हौ ओश्रावयेति क्रियापदमखण्ड, जानु उ इति जायतेऽनेनाऽऽकुश्चनादीति “ कुवापाजि०” इत्यादिना उणि जानु, अत्र जानीत्युकारनिर्देशान्न "नजनवध" इति प्रतिषिद्धाऽपि वृद्धिर्भवति । आ उदकान्तादिति-अत्राऽऽङ्मर्यादायां तेन प्रियपोथानुव्रजन- 20 स्योदकमर्यादाभाव आङा द्योत्यते । आ आर्येभ्य इति-अत्र आङभिविधौ तेन यशो गतिं प्रत्यार्याणामभिविधित्वं द्योत्यते । मर्यादाभिविधौ चेति-अवधिमता सम्बद्धोऽवधिरभिविधिरभिव्याप्तिः, अवधिमपि यो व्याप्नोतीत्यर्थः, अवधिमता सम्बद्धो योऽवधि स मर्यादा तं परित्यज्य यो वर्तत इत्यर्थः । वाक्यस्मरणयोरिति-वाक्यशब्देन वाक्यार्थ उच्यते, चादीनां द्योतकत्वात् , अर्थस्यैव च द्योत्यत्वात् , न तु शब्दस्येति। 25 आ एवं किल मन्यसे-पूर्वप्रक्रान्तवाक्यार्थस्याऽन्यथात्वद्योतनायायमत्राऽऽकारः, अन्ये तु वाक्यशब्देन वाक्यमेवाऽऽहुस्तत आ एवं किल मन्यसे नैवं पूर्वममंस्थाः सम्प्रति
१.-२-२६ । २ उ० १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org