SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ( ३३ ) दधि अत्रेति ३, तत्र दध्यत्रेति स्वरूपेणैकं रूपं, “अदीर्घाद्वि० " इत्यादिसूत्रेण त्रतकारस्य द्वित्वे द्वितीयं धस्य द्वित्वे तृतीयं, धस्य त्रतकारस्य च द्वित्वे चतुर्थ, तथा "ततोऽस्या" इति यस्य द्वित्वे पञ्चमं यस्य त्रतकारस्य च द्वित्वे षष्ठमेवं दधि यत्रेति दधि अत्रेति च रूपे तकारस्य विकल्पेन द्वित्वे रूपचतुष्टयमित्येवं दश रूपाणि ज्ञेयानि । तथा नदी एषेति शब्दयोर्यत्वे नद्येषा १ अत्रादीर्घा० इति विकल्पेन दस्य द्वित्वे नदयेषा २ " ततोऽस्या" 5 इति यस्य द्वित्वे नय्येषा ३ ह्रस्वत्वे नदि एषा ४ इवर्णात्परतो यकारे नदी येषा ५ मतान्तरेण प्रकृतिवद्भावे नदी एषा ६ इति षड् रूपाणि । इवर्णोवर्णाभ्यामेव च परतो यकारवकारौ दृश्येते नतु ऋवर्णवर्णाभ्यां परतो रलाविति । एदैतोऽयाय् ' । १-२-२३ || रायैन्द्रीति, इन्द्रो देवता "sस्या इत्यणि ऐन्द्री पूर्वदिक्, शृङ्त्स्थाने धियते स्वेन रूपेणाऽऽत्माऽनयेति “ वादिभ्यः " इतिक्तौ 10 धृतिः सन्तोषस्तया धृतिरिति " कारकं कृता " इति समासः, रायो धृतिर्धरणमिति कृतीति षष्ठीसमासो वा । 6 ‘ य्यक्ये ' । १-२-२५ || गव्यमिति गोशब्दस्य युगादिपाठो हितादावर्थे तदन्तावपि तस्माद्यप्रत्ययार्थः, तेन सुगव्यम् अतिगव्यम् इत्यादावापि " उवर्णयुगादेर्यः " इति यः सिद्धः । उपोयते, औयत इति रूपे, वेंगू- तन्तुसन्ताने इत्यस्य 15 वेंगः, उंड् कुंड् इत्यस्य च कर्मणि, शरशब्दाद्यप्रत्यये ओकाराभावादवादेशाभावे कथं शरव्यमित्याशङ्कयाऽऽह शरव्यमितीति । ' ऋतोरस्तद्धिते ' । १-२-२६ ॥ ननु कार्यमित्यत्र परत्वाद् व्यणित्यत्र गोपदेशाद्वा वृद्धिरेव भविष्यति किं तद्धितग्रहणेन । सत्यं, अत्र तद्धितग्रहणं विना जागृयात् इयूयात् इत्यनयो रत्वं स्यात्, ननु परिसर्येत्यत्राऽपि प्राप्नोति । न तत्रा - 20 ऽन्यदपि वक्तुं शक्यं क्यपोऽधिकारे यग्रहणं गुणार्थमिति । 6 एदोतः पदान्तेऽस्य लुक् ' । १-२-२७ ॥ यद्यपि पदान्त इति व्यधिर्के - रणमकारस्य एदोतश्च सम्भवति तथाप्येदोतोरेव कर्तव्यम् । 66 6 गोर्नाम्न्यवोक्षे' । १-२-२८ ।। इत्यत्राऽकारलोपबाधनार्थमवादेशविधानात् अकारस्य च पदान्त इति च विशेषणे गवाक्ष इत्यत्राऽपदान्तत्वादकारस्य लोप- 25 प्राप्तिरेव नास्ति, कुतस्तदपवादोऽवादेशः सम्भवति । किञ्च, “ एदोतेः” इत्यत्रैव सूत्रे - " १ ६-२-१०१ । २ ५-३-९२ । ३ ७-१-३० । ४ विशेषणम् इति शेषः । ५ १-२-२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy