________________
(३२) तदेच्च अनिणेधेत् , अनिणेधेच्च ओञ्चेत्यादिविग्रहः, न विद्यते इणेधौ यत्र सोऽनिणे स चाऽसौ एचेति द्वन्द्व इति वा। __ 'वा नाम्नि'।१-२-२० ॥ उपेकीयतीति इत्यत्र धुटस्तृतीय इति न पस्य बत्वं, 'असिद्धं बहिरङ्गमन्तरङ्ग' इति न्यायात्, न च वाच्यं “स्वरस्य परे०" इति, “ने 5 सन्धी०" त्यादिना बाधितत्वात् , यतस्तत्र परिभाषाऽपि 'असिद्धं बहिरङ्गमन्तरङ्ग' मित्यनेन न्यायेनाऽबाधि, एवमन्यत्रापि “ ओमाडि " इति पूर्वसूत्रेणाऽनेन च सूत्रेण अवर्णे लोपे व्यञ्जनान्तत्वे संयोगान्तत्वे “ पर्दम्य ” इति लोपोऽसंयोगान्तत्वे " धुटस्तृतीय" इति तृतीयत्वं च प्राप्नोति, तदसिद्धं बहिरङ्गमिति न्यायान्न भवतीति ज्ञेयम् ।
'इवर्णादेरस्वेस्वरे यवरलम्'। १-२-२१ ॥ अस्वे स्वरे इत्यसमस्तनि10 देशः स्वरसम्बन्धनिवृत्त्यर्थः, तेन “ एदैतोऽयाय् ” इत्यादौ स्वरस्यैवाऽनुवृत्तिः, न त्व
स्वस्येति तेन रायैन्द्रीत्यादौ स्वेऽपि भवति । पित्रर्थ इति पित्रेऽयमर्थशब्देन विग्रहः, " तदर्थार्थेन " इति अर्थशब्देनैव चतुर्थ्या अभिहितत्वाद्वाक्याभावे अर्थशब्देन नित्यसमासः।
'इस्वोऽपदेवा' । १-२-२२ ॥ अति एतीति, इस्वोऽपि सन्धिकार्यमिति, 15 " नित्या धातूपसर्गयोः ” इति वर्तत एवेति । इस्वस्याऽपीति-अयमर्थः, व्यक्तिः
पदार्थः तत्र च प्रतिव्यक्तिलक्षणेन प्रवर्तितव्यं, अप्रवृत्तौ च तस्याऽऽनर्थक्यं स्यादिति पर्जन्यवत्सर्वत्र फलाभावेऽपि तेन प्रवर्तितव्यं, पर्जन्यो हि यावदूनं पूर्ण च सर्वमभिवपति । वध्वाविति-ननु ऊकारस्यौकारस्य च ओष्ठ्यत्वादस्वस्वराभावेनाऽपद इति
व्यावृत्तेद्व्यङ्गविकलतेति ? सत्यम् , मतान्तरेणौकारः कण्ठोष्ठ्य इत्यूकारमोष्ठ्यं प्रति 20 अस्व इति न व्यङ्गविकलतेति । नादकमित्यादौ षष्ठीसमासे सत्यप्यन्तर्वर्तिविभक्त्य
पेक्षया पदत्वमपीति, युगपत्पदत्वापदत्वे, अत्र च सूत्रेऽपद इति सूत्रांशे नञः प्रसज्याश्रयणात्तत्र च विधिः सामर्थ्यप्राप्ततया गौणत्वात्प्रतिषेधस्य च विधीयमानतया प्राधान्यात्तदाश्रयमेव कार्य भवतीति भावः । एवमिति-" नाम नाम्न्यैकार्थे० " इत्य
नेन प्रथमं वेः पश्चादनोः समासे सतीत्यर्थः, ततोऽनुव्यचलदित्यतः समासात्सेढुंग 25 " दीर्घाब० " इत्ययेन अथवेति-स्वरादेराकृतिगणत्वाद्विभक्त्यन्ताभत्वाद्वाऽव्ययत्व
मित्यर्थः, अव्ययत्वात्स्यायुत्पत्तिरर्थश्च स एवेति । इवर्णादेरिति-इस्वोऽपदे चेति च सूत्रद्वयेन दध्यत्रेति ?, यत्वे मतान्तरेणेवर्णात् य दधि यत्रेति यत्वबाधनार्थम् , इस्वत्वे
१७-४-११० । २ ७-४-१११ । ३ १-२-१८ । ४२-१-८९ । ५२-१-७६ । ६ १-२-२३ । ७३-१-७२ । ८ संहिता इति शेषः। ९३-१-१८ । १०१-४-४५ । ११ सूत्रद्वयसंगतोदाहरण श्रेणिमाह । १२ इवर्णादेः इति पञ्चमी व्याख्यानरूपेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org