________________
(३१) घेत । अक्षाणामूहोऽस्यामस्तीति, इदमर्थकथनमात्रं, अक्षाणामूहिनीति तु विग्रहः कार्यः, अक्षौहिणीपूर्वपदस्थादिति णत्वम् । _ 'अनियोगेलुगेवे'। १-२-१६ ॥ अनियोगे-अवधारणमवश्यम्भाव इत्यर्थः । इहैवेत्यत्र एवशब्दो वाक्यालङ्कारे, ये त्वनियोगेऽव्यापारणे इच्छन्तीति-ये शिवमुख्याः , कटं कुर्वन्त्यादिव्यापारणं तदभावे । “ अमैवाऽव्ययेन” इत्यादि एतेषु सर्वेषु स्व- 5 रूपाख्यानमेवाऽस्ति, न तु व्यापरणमिति, यदाऽव्ययेन सह समासस्तदाऽमाऽमन्तेनैवेत्यर्थः-निमूलकाषं कषतीत्यादाविति । " धातोस्तन्निमित्तकस्यैव” इति, क्यनिमित्तस्यैव औदौत इत्यर्थः। " लङःशाकटायनस्यैव” इति शस्तन्यावाक्यमित्युक्तिः। वृत्तिर. पीति-मुमूर्ष इत्येव वा सन्प्रत्ययस्य वा वृत्तिः प्रवृत्तिरित्यर्थः । इहैव स्यादित्यादीनि पाणिनीयसूत्राणि । ' यदैव पूर्वे जनने शरीरम् ' इति कुमारसम्भवः । ' दृशैवकोप० ' 10 इत्यादि कादम्बर्याम् , अत्र रिपोर्हिरण्यकश्यपोः 'अद्यैवाऽऽवां रण' इति वेणीसंहारे, ' तरसैव० ' इत्यादि किराते, कुलटाऽसती, पतञ्जलि:-सांख्यमताध्यात्मशास्त्रकर्ता पुरुषविशेषः, सीम्नोऽन्त:-एकदेशः, प्रध्ययनमिति प्रशब्दस्याऽव्ययस्य हितादित्वात्समासः, मनीषा बुद्धिः, त्वे इति तुशन्दस्योकारलोपे त्वै इति रूपं मन्यते परः, ततः केन सूत्रेणोकारलोप इति परस्याऽऽशयः; तुवै, त्वै, नुवै, न्वै, इति तु ४ अवधारणार्थाः। 15
'वौष्ठौ तौ समासे' । १-२-१७ ।। अत्र सूत्रत्वात्समाहारोऽन्यथा “प्राणितुर्य० " इति स्वैरिति व्यावृत्या निषेधः स्यात् , यद्वा पुटापुटिकेतिवत् ओष्ठावयवयोगात्समुदायोऽप्योष्ठ इति प्रक्रियया कर्मधारयः । तौ चेनिमित्तेति-एकत्रैवेति, परममोष्ठसौन्दर्य यस्या इति परमौष्ठसौन्दर्या इत्यत्राऽकारलुग्भवति । बिम्ब्याः फलं विकारोऽवयवो वा “ हेमादिभ्योऽञ्," अधरोत्तरयोरोष्ठे नित्यमिति नन्दिस्वामी । 20 " ओमाङि " आ ऊढा ओटेति “ गतिकैन्यः” इति समासः, खट्वानिक्षेपणीयेत्यादिक्रिया योज्या, तथा दध्यत्र्तोरिति भक्षणीयं वर्जनीवं वेति योगः ।
'उपसर्गस्यानिणेधेदोति' । १-२-१९ ॥ न इणेत् अनिणेत् , अनिणेच्च
१ अनियोगे-नियोगशब्दस्य।२ पा०२-२-२०।३ पा०६-१-८०।४ पा०३-४-१११। ५ यदैव पूर्वजनने शरीरम् , सा दक्षरोषाद् सुदती ससर्ज । तदा प्रभृत्येव विमुक्त संगः, पतिः पशूनामपरिग्रहोऽभूत् ॥ इति कुमार संभवे. प्र० स० ५३ श्लो० ॥ ६ जयत्युपेन्द्रः स चकार दूरतोबिभिसया यः क्षणलब्धलक्षया । दृशैवकोपारुणया रिपोरः स्वयंभयाद् भिन्नमिवारपाटलम् ॥ कादम्बा मंगल श्लो० ३॥७ अंड ४ श्लो० १५ । ८ सर्ग १२ श्लो. २६ । ९३-१-१३७ । १० ६-२-४५ । ११ १-२-१८ । १२ ३-१-४२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org