________________
(३०) लूपूभ्यामजनन्ताभ्यामलन्ताभ्यां वा । लवमाचष्टे पवमाचष्टे “णिज्बहुलम्" इति णिचि विबादिः पूर्ववत् ।
'प्रस्यैषैष्योढोढयूहे स्वरेण' । १।२।१४ ॥ अवर्णस्य कार्यिणोऽनुवृत्तेस्तस्य च प्रशब्देन सामानाधिकरण्यायोगादवयवावयविसम्बन्धे षष्ठीत्याह-प्रशब्दसम्बन्धि5 नोऽवर्णस्येति, प्रैष इति न्यक्कारपूर्वको व्यापार एवं प्रेषोऽपि, प्रैष्यः प्रेष्यश्च दास
उच्यते, प्रौहो हस्तिनः पश्चाजानुप्रदेशः प्रकृष्टतर्कश्च, अपोढः अपोह्यतेस्मेति क्ते रूपं निराकृतेऽर्थे । प्रेत इति-ई इतिधातोः प्रायतिस्मेति, इंक इतिधातोः प्रैति स्मेति, इंदु गतावित्यस्य प्रेयते स्मेति वा गत्यर्थेति ते रूपं मृतार्थे प्रकर्ष गतार्थे च,
प्रोत इति वेंगंधातोः प्रोयते स्मेति कर्मणि ते स्वृति च, ऊयैङ् तन्तुसन्ताने इत्यस्य 10 प्रोय्यते स्मेति के यलोपे च, उकुंङ् इत्युंङः प्रोयते स्मेति क्ते च सिध्यति, यदा आ
ईष्य इति क्रियते तदापि " ओमोडि" इत्यस्य विषयेऽपि “ उपसर्गस्यानिणे०" इत्यस्य प्राप्तिरेव, उभयोः स्थाने इति न्यायेन आई इत्येतयोरुभयोः स्थाने निष्पन्नस्य एतो यदा आङा व्यपदेशस्तदा " ओमाङि" इत्यस्य, अन्यथा “ उपसर्गस्य०" इत्यस्येत्यत
उक्तं यस्मिन् प्राप्त इति, प्राप्त एवेत्यवधारणव्याख्यानात् । 15 'स्वैर स्वैर्यक्षौहिण्याम्' । १-२-१५ ।। स्वैर यथा सममात्रौषधनिष्पनश्चू
र्णोऽपि सम इत्यवयवधर्मेण समुदायस्य व्यपदेश एवमिहापि स्वैरावयवयोगात्समु.दायोऽपि व्यात्मकः स्वैरः, स्वैर्यवयवयोगात् स्वैरी, अक्षौहिण्यवयवयोगादक्षौहिणी, ततः स्वैरश्चाऽसौ स्वैरी च, स चाऽसावक्षौहिणी चेति कर्मधारयः, यथा मर्यादामिविधी
च यः इत्यत्र समुदायोऽवयवशब्देन मर्यादावयवत्वान्मर्यादा, अभिविध्यवयवत्वाद20 मिविधिरिति व्यपदिश्यते, ततो विशेषणसमासो भवति, समुदाये च स्वैरस्वैर्यक्षौहिणी
रूपे कार्यासम्भवादवयव एव स्वैर इत्यादिः कार्यभागिति सौत्रो वा निर्देशः तेनेतरेतरयोगे बहुवचनं समाहारे हस्वत्वं च न भवति, अथवा स्वैरस्वैरिभ्यां सहिताऽक्षौहिणी स्वैरस्वैर्यक्षौहिणीति " मयूरव्यंसकेत्यादयः" इति सूत्रत्वान्मध्यपदलोपी समासः,
एवमन्यत्रापि । तथाऽत्र सूत्रे विषयसप्तमी, तेन स्वरादिषु निष्पत्स्यमानेषु योऽकार 25 इत्यर्थः, स्वेनाऽऽत्मना ईरः स्वैरः “ कारकं कृता” इति समासः, ईर इति सामान्येन
घनन्तस्य कान्तस्य च परिग्रह इत्युभयत्रापि कार्य, स्वैरशब्दस्य घनन्तस्याऽप्यभ्रादिदर्शनान्मत्वर्थीयेनाप्रत्ययेन कत्रभिधानं भवति, स्वयमीरतीति युजादित्वात्पाक्षिकणिजन्ततया प्रयोगोऽयम् । ऐत्वार्थमिति-अन्यथा णिनि स्वेरीत्यनिष्टं रूपमाप
१३-४-४२। २ तन्तुसन्ताने । ३ १-२-१८। ४ ९-२-१९ । ५३-१-११६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org