________________
'ऋस्तयो' १-२-५॥ अथ ऋकारलकारयोः सजातीयस्य पूर्व प्रतिपादितत्वासमानानां तेनेत्यनेनैव द्विमात्रऋकारः सेत्स्यति किमनेन ? न च वाच्यम् क्ल. ऋषभ इत्यत्र लकारस्य स्थानित्वाद्दीर्घत्वे प्रत्यासन्नत्वात् लकारः स्यादिति । यतो द्वयोः स्थानित्वमुक्तं तत्र ऋकारमेव स्थानिनमाश्रित्य दीः क्रियमाणे प्रत्यासत्या ऋकार एव भवि5 प्यति । सत्यं स्यादेवम् यदि ऋकारस्यैव स्थानित्वे किश्चिनियामकः स्यात् । यावता
द्वयोः षष्ठीतृतीयानिर्दिष्टयोः स्थानित्वमिति पूर्व परं वा लकाररूपं स्थानिनमाश्रित्य दीर्घ क्रियमाणे लकारोऽपि स्यात् , ऋकार एव चेष्यत इत्यतदर्थमस्याऽऽरम्म इति ।
अत्र च प्रकरणे ऋकारस्य ऋकारे दीर्घत्वात पितषभः, इस्वत्वात पितृ ऋषभा, 'ऋतो वो तो च' । इत्यनेन रु ऋ इत्यादेशद्वयात् पितृषभः पितृषभः इति रूपच10 तुष्टयं सिद्धम् । लूकारस्य लकारे दीर्घत्वात् क्लकारः इस्वत्वात् कृलकारः, लसद्धा.
वात् क्लकार इति रूपत्रयं सिद्धम् । ऋकारस्य ऋकारे लुकारस्य लुकारे दीर्घत्वहस्वत्वमतान्तरप्रकृतिवद्भावस्त्रीणि त्रीणि रूपाणि । तथा ऋकारस्य लकारे " ऋलती" ति इस्वत्वात् विकल्पपक्षे मतान्तरेण प्रकृतिवद्भावात् “ ऋतो वो तो च” इत्यत्र
मतान्तरेण रुवर्णस्थानित्वात् ऋ इत्यादेशद्वयात् "ऋस्तयोः" इति ऋविधानाच्च 15 रूपपञ्चकं । एवं लुकारस्य ऋकारे “ कलती" ति हृस्वत्वात् विकल्पपक्षे मतान्तरेण
प्रकृतिवद्भावात् लत र इति भावात् "ऋस्तयोः” ऋभावाच रूपचतुष्टयं तथा कारस्य लकारे " ऋलती" ति इस्वत्वात् “ ऋतो वो तो च" इत्यनेन तृऋ इत्यादेशद्वयात् “ ऋस्तयोः" इति ऋ इति विधानाच्च रूपचतुष्टयम् । तथा
लकारस्य ऋकारे " ऋलती" ति इस्वत्वात् लत र विधानात् “ ऋस्तयोः" इति 20 ऋविधानाच्च रूपत्रयम् ।
'ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सतरस्यार । १-२-७ ॥ऋणूयी गताविति अर्णोतीति के अंक गतौ ऋ प्रापणे चेत्याभ्यां कर्तरि कर्मणि वा ते "ऋही.” ति तस्य नत्वे, आभ्यामेव “वीही" इति किति णप्रत्यये ऋणम् प्रगतमि
त्युपलक्षणं तेन प्रकृष्टं प्रवृद्धं वा ऋणमित्यपि । दश ऋणान्यस्येति वर्णानुपूर्वी विज्ञानार्थ 25 व्युत्पत्तिमात्रमेतद्यावत् संज्ञाशब्दोऽयम् । यद्यपि परत्वात्सर्वत्राऽऽर प्राप्नोति तथाप्य रएव बाधक आरादेशो न इस्वस्येत्याह-समानानामितीति ।
'ऋते तृतीया समासे' । १-२-८ ॥ अर्तेः क्ते “ऋही." इति नत्वविकल्पे
१ एवं संपिंडितेनैवमेकोनत्रिंशद्रूपाणि भवन्तीति पञ्चसूत्रविवेकः । २ १-३-४ । ३ १-२-५ । ४ १-२-२ । ५४-२-७६ । ६ उ-१८३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org