________________
[ श्रीवीतरागस्तोत्रे
हति । ननु किमस्य भवद्भिः प्रमोदचिह्नमुपलब्धम् !, उच्यतेगीतनृत्यानुरागप्रकटनानि हि प्रमोदचिह्नानि, तानि चास्य स्फुटान्युद्भासन्ते; तथाहि-किं कुर्वन्नसौ मोदत इत्याह-गायन्निवालिविरुतैः अलिविरुतैः सौरभलोभोद्धान्तभ्रमद्भमरमधुरझंकृतैस्त्वद्गुणान् गायन्निव । तथा मृदुपवनप्रेढोलनचलैर्दलैस्त्वत्पुरो नृत्यन्निव, तथा यदि निसर्गत एव रक्तस्तथापि सम्भाव्यते। त्रिजगज्जनमनोरन. जीवातुभिस्त्वद्गुणैरिव रक्तः। समुचितं चास्य त्रिजगदुपरिवर्तिनस्तवाप्युपरि वर्तमानस्य प्रमोदमेदुरत्वम् ।
द्वितीयप्रातिहार्यमाह--- आयोजनं सुमनसोऽधस्तान्निक्षिप्तबन्धनाः। जानुदघ्नीः सुमनसो, देशनोयां किरन्ति ते ॥२॥
अनु०-हे नाथ ! एक योजन सुधी जेनां बींटडा नीचा छे एवा जानुप्रमाण पुष्पोने देवताओ आपनी देशनाभूमिने विषे घरसावे छे. (२)
अव०-आयो०-हे वीतराग!, ते तव देशनोव्यां समवसरणे सुमनसो देवा अध० अधःकृतबिण्टा जानुदनीः जानु. प्रमाणाः सार्द्धहस्तोच्छ्रिताः सुमनसः पुष्पाण्यायोजनं यावत् किरन्ति-आस्तृणन्ति ॥ २ ॥
वि० हे त्रिभुवनमहनीय!, ते तव देशनोया समवसरण१-'मृदु' इत्यत आरभ्य तथा' इतियावत् पाठः प्रथममुद्रित पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org