________________
पञ्चमः प्रकाशः ]
६१
भुवि सुमनसो देवाः, सुमनसः पुष्पाणि किरन्ति - विक्षिपन्ति । यदि पुनः पुरोभाग एव भगवत इत्याह-आयोजनं धर्मदेशनावनीमभिव्याप्य । तर्हि विरलविरला एव विस्तारिता भविष्यन्तीत्याह-जानुदघ्नीर्जानूत्सेधाः । एवमपि कठिनवृन्तघट्टितपदतलाः स्युरित्याह- अधस्तान्निक्षिप्तबन्धनाः उपरि प्रेङ्खोलद्दलपटला न्यक्कृतवृन्ताश्च । न च तावत्प्रमाणानामपि तासां कोटाकोटिप्रमितस्वच्छन्दसञ्चरदमरनरपादोपमर्द्दनवेदना मनागपि भवतीत्यहो
प्रभावातिशयः प्रभोरिति ।
तथा धर्मोपदेशावसरे हि भगवान् स्वभावसुभगंभविष्णुना श्रोतृजनश्रोत्र पुटप्रविशत्पीयूष कुल्यातुल्येन निरायासप्रवृत्तेनैव स्वरेण देशनां विधत्ते, किन्तु वृत्तिकृत इव सूत्रं सुरास्तमेव स्वरमायोजनं विष्वग् विस्तारयन्ति । अतो देवकृतत्वात् स दिव्यध्वनिरभिधीयते,
तमेवाहमालवकैशिकी मुख्य, - ग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतो, हर्षोद्ग्रीवैर्मृगैरपि ॥३॥
अनु० - मालकोश विगेरे ग्रामरागथी पवित्र थयेलो आपनो दिव्यध्वनि हर्षवडे ऊंची ग्रीवावाळा बनेला हरणीयाओद्वारा पण पीवायो छे. (३)
अव० - माल० हे वीतराग० तव देवैर्वेणुवीणाद्युपकरणश्रुतिधरणेन विस्तारितत्वादिव्यो ध्वनिर्हर्षोद्ग्रीवैर्विस्मयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org