________________
[ श्रीवीतरागस्तोत्रे न्मुखैमृगैरपि पीतः सस्पृहमाकर्णितः, मृगग्रहणं ध्वनिप्रियत्वात् । अपिशब्दात् सुरनरशेषपशुभिरपि । ध्वनिः किं विशिष्टः?, माल. मालवकैशिकी वैराग्यव्यञ्जकोऽतिसरसो रागविशेषः, तन्मुख्यास्तदादयो ये ग्रामावसाना रागास्तैः पवित्रितः ॥३॥
वि०-हे मध्वास्रवमुनिमूर्द्धन्य!, भगवंस्तव सम्बन्धी दिव्योऽमानवो ध्वनिर्मन्थाचलप्रमथ्यमानदुग्धजलधिध्वानधीरो धर्मदेशनानादस्तावदास्ताममन्दानन्दकन्दलितमनोभिरमरनरनिकरैः, किन्तु निस्तुषसुखोत्कर्षनिमीलितनेत्रत्रिभागैर्मृगैरपि पीतः सस्पृहमाकर्णितः। किं विशिष्टहर्षोद्ग्रीवैः प्रीत्युत्कन्धरैः, तथा श्रवणे हेतुमाह-मालवेत्यादि । मालवकैशिकी मुख्यो येषां ते मालवकैशिकीमुख्यास्ते च ते ग्रामरागाश्च मालवकैशिकीमुख्यग्रामरागास्तैः पवित्रितः पूतः संवलितः । अत एव सस्पृहसर्वसत्त्वसाधारणेऽपि तत्पाने मृगैः पीत इत्युक्तं विशेषेण गीतप्रियत्वान्मृगजातेः ।
तथा भगवान् समवसरणोपविष्टः क्षितितलविहारी च सुरासुरैर्निरन्तरं चामरैर्वीज्यत इत्येतदेवाह--- तवेन्दुधामधवला, चकास्ति चमरावली । हंसालिरिव वक्त्राब्ज-परिचर्यापरायणा ॥ ४ ॥
अनु०-चन्द्रनी कान्ति समान उज्ज्वळ एवी चामरोनी श्रेणि जाणे आपना मुखकमलनी सेवामा तत्पर थयेली हंसनी श्रेणि न होय, तेम शोभे छे. (४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org